________________
[श्रु०१ । अ०१ । उ०१ । नि०६४]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
कर्मोपादानाद् अनु-पश्चात् सञ्चरति = अनुसञ्चरति । पाठान्तरं वा अनुसंसरइ त्ति दिग्विदिगागमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेव अर्थमुपसंहरति
सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतो अनुसञ्चरति अनुसंस्मरतीति वा सोऽहम् इति आत्मोल्लेखे, अहंप्रत्ययग्राह्यत्वाद् आत्मन: । अनेन च पूर्वाद्या: प्रज्ञापकदिश: सर्वा गृहीताः भावदिशश्चेति ॥२॥
इममेव अर्थं निर्युक्तिकृद् दर्शयितुमना गाथात्रितयमाह
[नि० ]
[नि० ]
[नि०]
जाणइ सयं मतीए अन्नेसिं वा वि अंतिए सोच्चा । जाणगजणपन्नविओ जीवं तह जीवकाए य ॥६४॥
४
एत्थ य सह सम्मुइय त्ति जं पयं तत्थ जाणणा होइ । ओही मणपज्जवणाण केवले जाइसरणे य ॥ ६५ ॥
३८
परवइवागरणं पुण जिणवागरणं जिणा परं नत्थि । अन्नेसिं सोच्च त्तिय जिणेहिं सव्वो परो अन्नो ॥६६॥
जाण० इत्यादि, एत्थ चेत्यादि, परेत्यादि । कश्चिद् अनादिसंसृतौ पर्यटन् अवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमपि अन्येषाम् इत्येतत् पदं तावदाचष्टे - अन्येषां वा अतिशयज्ञानिनां अन्तिके श्रुत्वा जानाति । तथा जाणगजणपण्णविओ इत्यनेन परव्याकरणं उपात्तम्, तेन अयमर्थः–ज्ञायकः-तीर्थकृत्, तत्प्रज्ञापितश्च जानाति । यद् जानाति तत् स्वत एव दर्शयति— सामान्यतो जीवम् इत्यनेने अधिकृतोद्देशकस्य अर्थाधिकारमाह, तथा जीवकायांश्च पृथिवीकायादीन् इत्यनेन च उत्तरेषां षण्णामपि उद्देशकानां यथाक्रमं अधिकारार्थं आह इति ।
अत्र च सह सम्मुइए त्ति सूत्रे यत् पदं तत्र जाणण त्ति ज्ञानमुपात्तं भवति, ''मैन ज्ञाने' [ पा०धा०४ / ११७६] मननं मतिरिति कृत्वा । तच्च किम्भूतम् ? इति
44
टि० १. ०रतीति अनु० ख ॥
२. अंतिये ख ॥ ३ ०णतिजण० ख ॥ ४. सह सम्मुइए त्ति जं पयं सुए तत्थ ञ । ... सम्मुइयं ति ज... ख ज । ... सहस्समइयाए जं... झ ॥ ५. उवही झ ।। ६. जायस० झ । ७. सोउं ति य ख ज । सोव (च्च ) त्ति य झ । सोउ ति य अ ऋते ॥ ८. जाणइ इत्यादि, सहेत्यादि, परे० क ख ग ।। ९. ज्ञापकः कपुस्तकमृते ॥ १०. तत्प्रतिज्ञा० ख ॥। ११. ०नेन चाधिकृ० ख विना ॥ १२. ०थिव्य[ ? ]काया० क ॥। १३. सम्मइए ग । समुइए घ । सम्मए ङ । समइए च ॥ १४. ०त्र च जा० क ॥। १५. मनि ज्ञाने ग। मनं ज्ञाने ङ ॥