SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आत्माद्वैतवादिमतम् [श्रु०१ । अ०१ । उ०१ । सू०१ ] ] स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥ [ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति ॥ [ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा करोति विनयं कुलजेषु पुंसु ॥' तथा अन्ये अभिदधते— सेर्वमेतत् जीवादि ईश्वरात् प्रैवृत्तं तस्मादेव स्वरूपे अवतिष्ठते । कः पुनः अयं ईश्वरः ? – अणिमाद्यैश्वर्ययोगाद् ईश्वरः उक्तं च"अज्ञो जन्तुरनीशः स्यादात्मनः सुख-दुःखयोः । ] , ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥" [ महाभा०वन०३० / २८ ] तथा अन्ये ब्रुवते - न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ? आत्मनः, कः पुनः अयं आत्मा ?, आत्माद्वैतवादिनां विश्वपरिणतिरूपैः, यत उक्तम्— " एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” [ त्रिपुराता० उप०५/१२, ब्रह्मबिन्दूप०११ ] ] तथा " पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्" [ ऋग्वेद १०/९०/२] इत्यादि । एवमस्ति अजीवः स्वतो नित्यः कालत इत्येवं सर्वत्र योज्यम् । तथा अक्रियावादिनः = नास्तित्ववादिनः, तेषामपि जीवा - ऽजीवा - ऽऽश्रव-बन्धसंवर-निर्जरा-मोक्षाख्याः सप्त पदार्थाः स्व- परभेदद्वयेन तथा काल- यदृच्छा-नियतिस्वभावेश्वरा-ऽऽत्मभि: षड्भिः चिन्त्यमानाः चतुरशीतिविकल्पा भवन्ति, तद्यथा - नास्ति जीवः स्वतः कालतः, नास्ति जीवः परतः कालतः इति कालेन द्वौ लब्धौ । एवं यदृच्छादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः । सर्वे जीवपदार्थे द्वादश भवन्ति । एवमजीवादिषु अपि प्रत्येकं द्वादशैव । सप्त द्वादशकाः चतुरशीतिः ८४ । अयमत्रार्थःनास्ति जीवः स्वतः कालत इति । इह पदार्थानां लक्षणेन सत्ता निश्चीयते, कार्यतो वा । न टि० १. वा दधाति ख ग । २. समस्तमेत० ख ग ॥। ३. प्रसूतम् ख ग घ ॥ ४. अन्यो घ ङ च ॥ ५. ०त् स्वर्गं वा श्वभ्रमेव वा ख ॥ ६. ०पः, उक्तं च- एक ख। ०प आत्मा, उक्तं च-एक ग ङ ॥ ७ ०त्मा भूते भूते व्य० ख घ ङ ॥ ८ इत्येतत् स० घ ॥ ९ ०च्छानियत्यादि० ग ङ ॥ १०. सर्वेऽपि जी० ग घ ङ ॥ ११. ०शैते । सप्त ख घ । ०शैव । ते सप्त ङः ॥ ३३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy