________________
[श्रु०१।०१। उ०१। नि०६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
आयारे इत्यादि । क्षुल्लिकाचारकथायां आचारस्य पूर्वोद्दिष्टो निक्षेपः । अस्य तु चतुरङ्गाध्ययन इति, यश्च अत्र विशेषः सोऽभिधीयते भावाचारविषय इति ॥५॥
यथाप्रतिज्ञातमाह[नि०] तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे ।
समोतारे सारे या सत्तहिं दारेहिं नाणत्तं ॥६॥ तस्सेत्यादि गाथा । तस्य-भावाचारस्य एकार्थाभिधायिनो वाच्याः । तथा केन प्रकारेण प्रवृत्तिः प्रवर्तना आचारस्य अभूत्; तच्च वाच्यम् । तथा प्रथमाङ्गता च वाच्या । तथा गणी आचार्यः, तस्य कतिथं स्थानमिदं इति च वाच्यम् । तथा परिमाणम्-इयत्ता वाच्या । तथा किं क्व समवतरति इति एतच्च वाच्यम् । तथा सारश्च वाच्यः इति । एभिः द्वारैः पूर्वस्माद् भावाचाराद् अस्य भेद:=नानात्वमिति पिण्डार्थः ॥६॥
___ अवयवार्थं तु नियुक्तिकृद् एवाभिधातुमाह[नि०] आयारो आचालो आगालो आगरो य आसासो ।
आयरिसो अंगै ति य आइण्णाऽऽजाई आमोक्खो ॥७॥ दारं ॥ ___ आयारो इत्यादि । आचर्यते = आसेव्यते इति आचारः । स च नामादिश्चतुर्धा । तत्र ज्ञशरीर-भव्यशरीर-तव्यतिरिक्तो द्रव्याचारोऽनया गाथया अनुसर्तव्यः
"नामण-धोयण-वासण-सिक्खावण-सुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि॥" [ दशवै०नि०१८०, निशी०भा०६ ]
भावाचारो द्वेधा- लौकिको लोकोत्तरश्च । तत्र लौकिक: पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयः । लोकोत्तरश्चं पञ्चधा ज्ञानादिकः । तत्र ज्ञानाचार:अष्टधा, तद्यथा
"काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए अट्ठविहो णाणमायारो ॥"
[दशवै०नि०१८४, निशी०भा०८, व्यव०भा०६३ ]
टि० १. क्षुल्लकाचारे क० ग ॥ २. ०स्य चतु० च ॥ ३. ०र्तनमाचार० ग ॥ ४. ०तद्वाच्यम् ख ॥ ५. आगरिसो ख झ । आदरिसो च ॥ ६. ०गं चिय झ ॥ ७. आचिण्णा० छ । ८. ०३ यामोक्खो ख ज ञ । ०३ यामोक्खे झ । ०३ यामुक्खो ठ ॥ ९. आमोक्खे छ । १०. ०यारे इ० ग घ च ॥ ११. आचार्यते ग घ च ॥ १२. ०ते सेव्य० ख ॥ १३. रस्तु प० ग घ ङ ॥
वि०टि० "पूर्वस्मादिति क्षुल्लिकाचारात्'' जै०वि०प० ॥