SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ बालस्वरूपम् आदानीयः = ग्राह्य आदेयवचनश्च व्याख्यात इति । कश्च एवम्भूतः ? इत्याह जे धुणाइ इत्यादि । ब्रह्मचर्ये = संयमे मदनपरित्यागे वा उषित्वा यः समुच्छ्रयं = शरीरं कर्मोपचयं वा तपश्चरणादिना धुनाति = कृशीकरोति स आदानीय इति विविधमाख्यातः = व्याख्यात इति सम्बन्धः || १४३ || उक्ता अप्रमत्ताः। तद्विधर्मिणः तु प्रमत्तान् अभिधित्सुः आह [सू०] णेत्तेहिं पलिछिण्णेहिं आताणसोतगढिते बाले अव्वोच्छिण्णबंधणे अणभिक्कंतसंजोए । तमसि अविजाणओ आणाए लंभो णत्थि त्ति बेमि ॥१४४॥ णेत्तेहिं इत्यादि। नयन्ति अर्थदेशं अर्थक्रियासमर्थं अर्थं वा आविर्भावयन्तीति नेत्राणि चक्षुरादीनि इन्द्रियाणि, तैः परिच्छिन्नैः यथास्वविषयग्रहणं प्रति निरुद्धैः सद्भिः / आदानयोऽपि भूत्वा उषित्वा ब्रह्मचर्ये पुनः मोहोदयाद् आदानश्रोतोमृद्धः आदीयते = सावद्यानुष्ठानेन स्वीक्रियते इति आदानं कर्म संसारबीजभूतम्, तस्य श्रोतांसि इंन्द्रियविषया मिथ्यात्वाऽविरति-प्रमाद - कषाय- योगा वा, तेषु गृद्धः =अध्युपपन्नः स्यात् । कोऽसौ ? - बालः अज्ञो राग-द्वेष-महा-‍ - मोहाभिभूतान्तः करणः । यश्च आदानश्रोतोमृद्धः स किम्भूतः स्यात? इत्याह- [श्रु०१। अ०४ । उ०४। सू०१४५ ] अव्वोच्छिन्नबंधणे इत्यादि । अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनं अष्टप्रकारं कर्म यस्य स तथा । किञ्च - अणभिक्कन्त० इत्यादि । अनभिक्रान्तः - अनतिलङ्घितः संयोगः- धनधान्य- हिरण्य-पुत्र-कलत्रादिकृतः असंयमसंयोगो वा येन असौ-अनभिक्रान्तसंयोगः | तस्य च एवम्भूतस्य इन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्य आत्महितं मोक्षोपायं वा अविजानतः आज्ञायाः = तीर्थकरोपदेशस्य लाभो नास्ति इति एतदहं ब्रवीमि तीर्थकरवचनोपलब्धसद्भाव इति । यदि वा आज्ञा = बोधिः सम्यक्त्वम्, अस्तिशब्दश्च निपातः त्रिकालविषयी, तेन अयमर्थ:- तस्य अनभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीत् नास्ति न भावीति ॥ १४४ ॥ एतदेवाह - सू०] जस्स णत्थि पुरे पच्छा मज्झे तस्स कुओ सिया ? | जस्स णत्थि इत्यादि । यस्य कस्यचिद् अविशेषितस्य कर्मादानश्रोतोमृद्धस्य बालस्य टि० १. णित्तेहिं ग । णेत्तेहि घ । णेतेहिं ङ । २. ०अर्थं आविर्भाव० ङ ऋते । ३. पलिच्छिन्नैः क ॥ ४. इन्द्रिय- मिथ्यात्वा० क । इन्द्रिय-विषय- मिथ्यात्वा० घ ङ ।। ५. ०न्तः नातिलङ्घितः ख ॥। ६. अनतिलङ्घितः ख ।। ७. लम्भीक ॥। ८. ०शब्दशायं निपात० क-गप्रती ऋते ॥ ३५५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy