________________
दुःखमात्रया स्पृष्ट न झञ्झायै [श्रु०१। अ०३। उ०३। सू०१२७] हिंसादिषु प्रवर्तते । परिवन्दनं-परिसंस्तवः, तदर्थमाचेष्टते; 'लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरं आलोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते–श्रीमान् ! जीव्याः त्वं बहूनि वर्षशतसहस्राणि' इत्येवमादि परिवन्दनम् । तथा माननार्थं कर्म उपचिनोति, 'दृष्टौरसबलपराक्रमं मामन्ये अभ्युत्थान-विनया-ऽऽसनदाना-ऽञ्जलिप्रग्रहै: मानयिष्यन्ति' इत्यादि माननम् । तथा पूजनार्थमपि प्रवर्तमानः कर्माश्रवैः आत्मानं भावयति, 'मम हि कृतविद्यस्य उपचितद्रव्यप्राग्भारस्य परो दान-मान-सत्कार-प्रणाम-सेवाविशेषैः पूजां . करिष्यति' इत्यादि पूजनम् । तदेवमर्थं कर्म उपचिनोति । किञ्च
जंसि एगे इत्यादि । यस्मिन् परिवन्दनादिनिमित्ते एके राग-द्वेषोपहताः प्रमाद्यन्ति, , न ते आत्मने हिताः । एतद्विपरीतं तु आह___ सहिते दुक्खमत्ताए पुट्ठो णो झंझाए ।
सहिए इत्यादि । सहितः ज्ञानादिसमन्वितः हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् नो झंझाए त्ति नो व्याकुलितमतिः भवेत्, तदपनयनाय न उद्यच्छेत् । इष्टविषयावाप्तौ रागझञ्झा, अनिष्टावाप्तौ च द्वेषझञ्झेति; तामुभयप्रकारामपि व्याकुलतां परित्यजेद् इति भावः । किञ्चपासिमं, दविए लोगालोगपवंचातो मुच्चति त्ति बेमि ॥१२७॥
॥सीओसणिज्जस्स तृतीयोद्देशकः ॥ पासिममित्यादि । यदुक्तं उद्देशकादेः आरभ्य अनन्तरसूत्रं यावत् तं इमं अर्थं पश्य = परिच्छिन्द्धि कर्तव्याकर्तव्यतया विवेके न अवधारय । कोऽसौ ?-द्रव्यभूतः मुक्तिगमनयोग्यः, साधुरित्यर्थः । एवम्भूतश्च कं गुणमवाप्नोति ?-आलोक्यत इति आलोकः, कर्मणि घञ्, लोके चतुर्दशरज्ज्वात्मके आलोक: लोकालोकः, तस्य प्रपञ्चः पर्याप्तका-ऽपर्याप्तक-सुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेन अवलोक्यते, । एकेन्द्रियादिः एकेन्द्रिय[?यादि]त्वेन; एवं पर्याप्तका-ऽपर्याप्तकाद्यपि वाच्यम् । तद् एवम्भूतात् प्रपञ्चात् मुच्यते, चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीति यावत्, इतिः । परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥१२७॥
॥ इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्तेति ॥ छ ।
टि० १. जंसेगे इत्यादि ख ग च । जंसेगेत्यादि घ ङ ॥ २. सद्धिए क । सहिओ घ ङ ॥ ३. कर्तव्यताविवेकेना० ॥ ४. ०ध्ययनतृतीयो० ख ॥ ५. ०टीका परिसमाप्तेति ख च । ०टीका परिसमाप्ता ङ॥