________________
उन्मज्जनं लब्ध्वा जीवाहिंसनम् [श्रु०१। अ०३। उ०२। सू०११९(९)] तम्हा इत्यादि । यस्माद् लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति तस्माद् वीरो लोभहेतोः वधाद् विरतः स्यादिति । किञ्च
छिंदिज्ज इत्यादि । शोकं भावोतो वा छिन्द्यात्-अपनयेत्, किम्भूतः? लघुभूतः-मोक्षः संयमो वा, तं गन्तुं शीलमस्य इति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्य इति लघुभूतकामी ॥ १२०(८)। पुनरपि उपदेशदानाय आह[सू०] गंथं परिणाय इहज्ज वीरे,
सोयं परिणाय चरेज्ज दंते । उम्मुग्ग ल« इह माणवेहिं, णो पाणिणं पाणे समारभेज्जासि ॥१२१(९)॥ त्ति बेमि ।
॥ सीओसणिज्जस्स बीओ उद्देसओ सम्पत्तो ॥ गंथमित्यादि वृत्तम् । ग्रन्थं बाह्या-ऽभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इह अद्य एव कालानतिपातेन वीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत् । किञ्च
सोयमित्यादि । विषयाभिष्वङ्गः संसारश्रोतः, तद् ज्ञात्वा दान्त इन्द्रिय- नोइन्द्रियदमेन संयमं चरेदिति । किमभिसन्धाय संयमं चरेत् ? इत्याह
उम्मुग्ग लद्धमित्यादि । इह मिथ्यात्वादिशैवलाच्छादिते संसारहूदे जीवकच्छपः श्रुति-श्रद्धा-संयमवीर्यरूपं उन्मज्जनं आसाद्य लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गा-ऽसम्भवाद् मानुषेषु इत्युक्तम् । क्त्वाप्रत्ययस्य उत्तरक्रियासव्यपेक्षित्वाद् उत्तरक्रियामाह
नो पाणिणमित्यादि । प्राणा विद्यन्ते येषां ते प्राणिनः, तेषां प्राणान् पञ्चेन्द्रियत्रिविधबल-उच्छ्वासनिःश्वासा-ऽऽयुष्कलक्षणान् नो समारभेथाः=न व्यपरोपयः, तदुपघातकारि अनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत् ॥१२१(९)।
॥ शीतोष्णीयाध्ययनद्वितीयोद्देशकटीका समाप्ता ॥ छ ॥
टि० १. “ग्रन्थ १४ [ आभ्यन्तर]" झअव० ॥ २. धीर: घ ङ च ॥ ३. ०नोइन्द्रियसंयमेन ख ॥ ४. उम्मग क ख । उम्मुग्ग च ॥ ५. ०स्योत्तरकालसव्यपेक्षत्वाद् ख ॥ ६. ०सव्यपेक्षत्वाद् ग ॥ ७. व्यपरोपयेत् ग ॥ ८. ०कार्यमनुष्ठानं ङ ॥ ९. ०याध्ययने ग॥ १०. समाप्तेति घ । समाप्ता इति ङप्रतौ नास्ति । परिसमाप्तेति च ॥
३०१