SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ नामकर्मणः सत्तास्थानानि [श्रु०१। अ०३। उ०१। सू०१११] एकोननवतिः ८९, अष्टाशीतिः ८८, षडशीतिः ८६, अशीतिः ८०, एकोनाशीतिः ७९, अष्टसप्ततिः ७८, षट्सप्ततिः ७६, पञ्चसप्ततिः ७५, नव ९, अष्टौ चेति ८। तत्र त्रिनवतिः-गतयश्चतस्रः ४, पञ्च जातयः ५, पञ्चशरीराणि ५, पञ्च सङ्घाताः ५, बन्धनानि पञ्च ५, संस्थानानि षट् ६, अङ्गोपाङ्गत्रयम् ३, संहननानि षट् ६, वर्णपञ्चकं ५, गन्धद्वयं २, रसाः पञ्च ५, अष्टौ स्पर्शाः ८, आनुपूर्वीचतुष्टयं ४, अगुरुलघु-उपघात-पराघात-उच्छासाऽऽतप-उद्द्योताः षट् ६, प्रशस्तेतरविहायोगतिद्वयं २, प्रत्येकशरीर-त्रस-शुभ-सुभग-सुस्वरसूक्ष्म-पर्याप्तक-स्थिरा-ऽऽदेय-यशांसि सेतराणीति विंशतिः २०, निर्माणम्, तीर्थकरत्वमिति एवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाऽभावे द्विनवतिः ९२, त्रिनवतेः आहारकशरीर-सङ्घात-बन्धना-ऽङ्गोपाङ्गचतुष्टयाभावे सति एकोननवतिः ८९, ततोऽपि तीर्थकरनामाऽभावेऽष्टाशीतिः ८८, देवगति-तदानुपूर्वीद्वयोद्वलने षडशीतिः ८६, यदि वा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्नतः तद्गत्यानुपूर्वीद्वय-वैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति। ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलने अशीतिः ८० । पुनः मनुष्यगत्यानुपूर्वीद्वयोद्वलने अष्टसप्ततिः ७८ । एतानि अक्षपकाणां सेत्कर्मतास्थानानि; क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा त्रिनवते: नरक-तिर्यग्गति-तदानुपूर्वीद्वय-एक-द्वि-त्रि-चतुरिन्द्रियजाति-आतपउद्द्योत-स्थावर-सूक्ष्म-साधारणरूपैः नरक-तिर्यग्गतिप्रायोग्यैः त्रयोदशभिः कर्मभिः क्षपितः अशीतिः भवति । द्विनवतेः तु एभिः त्रयोदशभिः क्षपितैः एकोनाशीतिः । या असौ आहारकचतुष्टयापगमेन एकोननवतिः सञ्जाता ततः त्रयोदशनाम्नि क्षपिते षट्सप्ततिः भवति । तीर्थकरनामाभावापादिता अष्टाशीतिः । त्रयोदशनामाभावे पञ्चसप्ततिः । साऽपि तीर्थकरकेवलिशैलेश्यापन्नद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपाद् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगच्छति इत्यतः अन्त्यसमये नवसत्कर्मतास्थानम् । ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्तक-सुभगा-ऽऽदेय-यश:कीर्तितीर्थकररूपाः, एता एव शैलेश्यन्तसमये सत्तां बिभ्रति; शेषास्तु एकसप्ततिः सप्तषष्टिर्वा द्विचरमसमये क्षयमुपयान्ति; एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतः अन्त्यसमये अष्टसत्कर्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा- उच्च-नीचगोत्रसद्भावे सत्येकं टि० १. द्विनवतिर्भवति ९२ ग ॥ २. सत्कर्मस्थानानि ख ।। ३. तिः । तत्राशीतेः षट्सप्ततेर्वा तीर्थकर० क-खपुस्तके ऋते ॥ ४. क्षयमुपगते शेषनाम्नि अन्त्यसमये क-खप्रतिभ्यामृते ॥ ५. ०न्ति; एवं नव क || २८९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy