SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०५। सू०८७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् क्रियन्त इति । लोकस्य इति चतुर्थ्यर्थे षष्ठी, साऽपि तादर्थ्ये । कः पुनरसौ लोको यदर्थं संरम्भ-समारम्भा-ऽऽरम्भाः क्रियन्ते ? इत्याह- 'तं जहा-अप्पणो से' इत्यादि । यदि वा लोकस्य तृतीयार्थे षष्ठी, यद् इति हेतौ, यस्माद् लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतः तस्मिन् लोके साधुः वृत्तिं अन्वेषयेत् । यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तेत् तद्यथा इत्यादिना दर्शयति तं जहा-अप्पणो से इत्यादि । तद्यथा इंति उपप्रदर्शनार्थे, न उक्तमात्रमेव, अन्यदपि एवंजातीयकं मित्रादिकं दृष्टव्यम् । से-तस्य आरम्भारिप्सोः य आत्मा-शरीरं तस्मै, तदर्थं कर्मसमारम्भाः पाकादयः क्रियन्ते । ___ननु च लोकार्थं आरम्भाः क्रियन्त इति प्रागभिहितम्, न च शरीरं लोको भवति; नैतदस्ति, यतः परमार्थदृशां ज्ञान-दर्शन-चारित्रात्मकं आत्मतत्त्वं विहाय अन्यत् सर्वं शरीराद्यपि पराक्यमेव । तथा हि-बाह्यस्य पौद्गलिकस्य अचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणि इत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति । तदेवं कश्चिच्छरीरनिमित्तं कर्म आरभते; अपरस्तु पुत्रेभ्यो, दुहितृभ्यः, स्नुषा:= वध्वः ताभ्यः, ज्ञातयः पूर्वा-ऽपरसम्बद्धाः स्वजनाः ताभ्यः, धात्रीभ्यः, राजभ्यः, दासेभ्यः,दासीभ्यः, कर्मकरेभ्यः, कर्मकरीभ्यः, आदिश्यते परिजनो यस्मिन्नागते तदातिथेयाय इति आदेशः प्राघूर्णकः तदर्थं, कर्मसमारम्भाः क्रियन्त इति सम्बन्धः । तथा पुढो पहेणाए इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थम्; तथा सामासाए त्ति श्यामा रजनी, तस्यामशनं-श्यामाशः, तदर्थम्; तथा पायरासाए त्ति प्रातरशनं-प्रातराशः, तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येन उक्तौ अपि विशेषार्थमाह सन्निहीत्यादि । सम्यग् निधीयत इति सन्निधिः विनाशिद्रव्याणां दध्योदनादीनां संस्थापनम्; तथा सम्यग् निश्चयेन चीयत इति सन्निचयः अविनाशिद्रव्याणां अभया-सितामृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयश्च-सन्निधि-सन्निचयं प्राकृतशैल्या पुंलिङ्गता। . अथवा सन्निधेः सन्निचयः = सन्निधिसन्निचयः; स च परिग्रहसञोदयाद् आजीविकाभयाद् वा धन-धान्य-हिरण्यादीनां क्रियत इति । स च किमर्थम् ? इत्याह इहेत्यादि । इह इति मनुष्यलोके एकेषां इहलोककृतपरमार्थबुद्धीनां मानवानां टि० १. हेतोः ख ॥ २. तत् इति घप्रतावेव ॥ ३. इत्युपप्रदर्शनार्थों ग घ । इत्युपदर्शनार्थो ङ। इत्युपप्रदर्शनार्थम् च ॥ ४. तस्मै अर्थं तदर्थं कर्म० ग च ॥ ५. ०सम्बन्धाः क॥ ६. तेभ्यः खपुस्तकमृते ।। ७. सन्निही य इत्यादि ग ।। ८. इहलोकभूतपरमार्थ० च ॥ वि०टि० ० "उ०५-सिता शर्करा" स०वि०प० ॥ २४०
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy