SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०२। उ०१। सू०६४] निर्वर्त्यत इति निर्वृत्तिः । केन निर्वर्त्यते ?, कर्मणा । तत्र उत्सेधाङ्गलासङ्ख्येयभागप्रमितानां शुद्धानां आत्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेन अवस्थिता या वृत्तिरभ्यन्तरा निर्वृत्तिः । तेष्वेव आत्मप्रदेशेषु इन्द्रियव्यपदेशभाग् यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना चे निष्पादित इति बाह्यनिर्वृत्तिः । तस्या एव निर्वृत्तेः द्विरूपाया येन उपकारः क्रियते तदुपकरणम्; तच्च इन्द्रियकार्यसमर्थम् । सत्यामपि (बाह्य)निर्वृत्तौ, अनुपहतायां (च) मसूराद्याकृतिरूपायां (आन्तर)निर्वृत्तौ तस्य उपघाताद् न पश्यति । तदपि निवृत्तिवद् द्विधा- बाह्यमाभ्यन्तरं टि० १. ०व्यपदेशभाक्षु यः क ग च ॥ २. तु ख-चपुस्तके विना ।। वि०टि० A तुलना"निर्वर्त्यत इति निर्वृत्तिः । सा द्वेधा बाह्याभ्यन्तरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यन्तरा; तस्यामेव दतावस्थांविशेषः पुद्गलप्रचयो बाह्या । उपक्रियतेऽनेनेत्युपकरणं । तदपि द्विविधं बाह्याभ्यन्तरभेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारमण्डलाद्यभ्यन्तरं ।" इति तत्त्वार्थश्लोकवातिके विद्यानन्दिः । "निर्वर्त्यत इति निर्वृत्तिः कर्मणा या निर्वर्त्यत-निष्पाद्यते सा निर्वृत्तिरित्युपदिश्यति । सा द्वेधा बाह्याभ्यन्तरभेदात् सा निर्वृत्तिर्द्वधा । कुतः ? बाह्याभ्यन्तरभेदात् । तत्र विशद्धात्मप्रदेशवत्तिरभ्यन्तरा । उत्सेधाङ्गलस्याऽसङ्ख्येयभागप्रमितानां विशद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानमानावमानावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या तेष्वात्मप्रदेशेषु इन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः स बाह्या निर्वृत्तिः । उपक्रियतेऽनेनेत्युपकरणं येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । तद् द्विविधं पूर्ववत् तदुपकरणं द्विविधं पूर्ववत् बाह्याभ्यन्तरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम्, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् ।" इति तत्त्वार्थराजवार्तिके भट्टाकलंकः । ___“निर्वर्त्यते इति निर्वृत्तिः । केन निर्वय॑ते ? कर्मणा । सा द्विविधा; बाह्याभ्यन्तरभेदात् । उत्सेधाङ्गुलासङ्ख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुदगलप्रचयः सा बाह्या निवृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । पूर्ववत् तदपि द्विविधम् । तत्राभ्यन्तरं कृष्णशुक्लमण्डलं, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् ।" इति तत्त्वार्थसर्वार्थसिद्धौ पूज्यपादः ॥ क "तस्य इति उपकरणस्य" जै०वि०प० ॥ १९३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy