________________
॥ द्वितीयमध्ययनं लोकविजयः ॥
॥ प्रथम उद्देशकः ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीथिकं, विहितैकैकतीर्थनेयवादसमूहवशात् प्रतिष्ठितम् । बहुतिथभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ नमः श्रीवर्द्धमानाय, वर्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥२॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृताः पूज्याः ।
श्रीगन्धहस्तिमिश्रा विवृणोमि ततोऽहमवशिष्टम् ॥३॥ उक्तं प्रथममध्ययनम् । साम्प्रतं द्वितीयमारभ्यते । अस्य च अयमभिसम्बन्धः- इह हि मिथ्यात्वोपशम-क्षय-क्षयोपशमान्यतरावाप्तसम्यग्दर्शन-ज्ञानकार्यस्य आत्यन्तिकैकान्ताऽनाबाधपरमानन्दस्वतत्त्वसुखा-ऽनावरणज्ञान-दर्शनलक्षणलक्षितमोक्षकारणस्य आश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्य अपराशेषव्रतवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टन-परितापना-ऽपद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गाद् अभूतगुणा-ऽऽत्मधर्मज्ञानोपलब्धेः बार्हस्पत्यमतुनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेन एकेन्द्रियावनि- वना-ऽनल-पवन-वनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलताद्युद्भेददर्शनाद् अर्शो मांसाङ्करवत्, अविकृतभूमिखननोपलब्धेः मण्डूकवत्, विशिष्टाहारोपचया-ऽपचयशरीराभिवृद्धि-क्षयान्वयव्यतिरेकगतेः अर्भकशरीरवत्, अ-परप्रेरिता-ऽप्रतिहता-ऽनियत-तिरश्चीनगमनाद् गवाऽश्वादिवत्, सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकाराधिगतेः कामुकवत् इत्यादिभिः
टि० १. वृत्तमिदं ख-चआदर्शयोर्नास्ति ॥ २. ०नववाद० क || ३. बहुविधभङ्गि घ ॥ ४. वृतं पूज्यैः । श्रीगन्धहस्तिमित्रैविवृणोमि च ॥ ५. ततोऽहमविशिष्टम् क-खप्रती ऋते ॥ ६. ०गुणात्मज्ञानो० ख॥
वि०टि० © “पर्या( र्य )यैः इति ज्ञानादिकैः ॥छ। प्रथमम् ।।छ।" जै०वि०प० ॥ + "वृताः इति वृतवन्तः" जै०वि०प० ॥ O "ततः इति गन्धहस्तिविवरणविशेषात्" जै०वि०प० ॥ A"स्वतत्त्व इति आत्मपरिज्ञाने" जै०वि०प० ॥ 2 "अपर इति मुषावादादि" जै०वि०प० ॥ वन इति उदकमित्यर्थः ।।
१५३