SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०६। सू०४९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्[सू०] से बेमि-संतिमे तसा पाणा, तं जहा- अंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया । एस संसारे त्ति पवुच्चति मंदस्स अवियाणओ । से बेमीत्यादि । अस्य च अनन्तर-परम्परादिसूत्रसम्बन्धः प्राग्वद् वाच्यः । सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणाद् यथावद् उपलब्ध तत्त्वमिति । सन्ति विद्यन्ते, त्रस्यन्तीति त्रसाः, प्राणिनः द्वीन्द्रियादयः । ते च कियद्भेदाः किम्प्रकाराश्च ? इति दर्शयति तद्यथा इति वाक्योपन्यासार्थः । यदि वा तत् प्रकारान्तरमर्थतो यथा भगवता अभिहितं तथा अहं भणामीति । अण्डाज्जाता:=अण्डजा: पक्षि-गृहकोकिलादयः, पोता एव जायन्ते-पोतजाः "अन्येष्वपि दृश्यते" [पा०व्या० ३।२।१०१] इति जेनेर्डप्रत्ययः, ते च हस्ति-वल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः पूर्ववत् डप्रत्ययः, गो-महिष्यजा-ऽविकमनुष्यादयः, रसाज्जाता: रसजाः, तक्रा-ऽऽरनाल-दधि-तीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता:-संस्वेदजाः, मत्कुण-यूका-शतपदिकादयः, सम्मूर्छनाज्जाताः= सम्मूर्छनजाः शलभ-पिपीलिका-मक्षिका-3ऽशालिकादयः, उद्भेदनम् उद्भित्, ततो जाता:-उद्भिजाः, पृषोदरादित्वाद् दलोपः, पतङ्ग-खञ्जरीटक-पारिप्लवादयः, उपपाताज्जाताः= उपपातजाः अथवा उपपाते भवा:=औपपातिकाः देवा नारकाश्च । एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते । एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तम्-"सम्मूर्छन-गर्भ-उपपाताज्जन्म" [तत्त्वार्थ० २१ २२] । रसज-संस्वेदज-उद्भिजानां सम्मूर्छनजान्त:पातित्वात्, अण्डज-पोतजजरायुजानां गर्भजान्त:पातित्वात्, देव-नारकाणां औपपातिकान्तःपातित्वात् इति त्रिविधं जन्म इति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवं एतस्मिन्नष्टविधे जन्मनि सर्वे त्रसा जन्तवः संसारिणो निपतन्ति, न एतद्व्यतिरेकेण अन्ये सन्ति, एते च अष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता __टि० १. ०न्दनिसृष्टार्थजाता० ख । न्दविनिसृतार्थज्ञानावधारणाद् च ॥ २. जनेर्डः । ते च ख । जनेर्डः प्रत्ययः । ग ॥ ३. पूर्वप्रत्ययः ख । पूर्ववत् प्रत्ययः च ॥ ४. ०जा-च्चि( चित्रक-मनु० घ ॥ ५. ०न-जन्म-उप० ख ॥ ६. सर्वेऽपि त्र० ख ॥ वि०टिo # "पायुः इति अवि(?)धिष्ठानिका" जै०वि०प० ॥ $ “आसाली [?आशालिका] इति चक्रवर्तिकटकाधस्ताद् द्वादशयोजनप्रमाणा" जै०वि०प० । एते उर:परिसर्पतिर्यग्जीवविशेषा ज्ञेयाः ।। १३२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy