________________
[श्रु०१। अ०१। उ०६। नि०१५३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
एगिदिय-बि-तिइंदिय-चउरिदिय-हरियकायाणं ॥ अड्डतेरस बारस देस नव नव चेव कोडिलक्खाई । जलयर-पक्खि -चउप्पय-उर-भुयपरिसप्पजीवाणं ॥ पणुवीसं छव्वीसं च सयसहस्साइँ नारय-सुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ एगा कोडाकोडी सत्ताणउइं च सयसहस्साई । पंचासं च सहस्सा कुलकोडीणं मुणेयव्वा ॥" [ ] अङ्कतः १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति ॥१५५।।
उक्ता प्ररूपणा । तदनन्तरं लक्षणद्वारमाह[नि०] दंसण णाण चरित्ते चरिताऽचरिते य दाण लाभे य ।
उवभोग भोग वीरियं इंदियविसए य लद्धी अ ॥१५६॥ [नि०] उवओग जोग अज्झवसाणे वीसुं च लद्धिओ उदया ।
अट्ठविहोदय लेसा सण्णुस्सासे कसाए य ॥१५७॥ दंसणेत्यादि, उवओगेत्यादि । दर्शनं सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यम्, मत्यादीनि ज्ञानानि स्व-परपरिच्छेदिनो जीवस्य परिणामा ज्ञानावरणविगमव्यक्ताः तत्त्वार्थपरिच्छेदाः, सामायिक-छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराययथाख्यातानि चारित्रम्, चारित्राऽचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणाम्, तथा दान-लाभ-भोग-उपभोग-वीर्य-श्रोत्र-चक्षुः-घ्राण-रसन-स्पर्शनाख्या दश लब्धयो जीवद्रव्याऽव्यभिचारिण्यो लक्षणं भवन्ति ।
तथा उपयोग: साकारः अनाकारश्च अष्ट-चतुर्भेदः, योगो मनो-वाक्-कायाख्यः त्रिधा, अध्यवसायाश्च अनेकविधाः सूक्ष्मा: मेनःपरिणामसमुत्थाः, विष्वक्-पृथग् लब्धीनां उदया:=प्रादुर्भावाः क्षीर-मध्वास्रवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः कृष्णादिभेदाः शुभा अशुभाश्च कषाय-योगपरिणाम
टि० १. दस दस नव चेव क-घपुस्तके विना ॥ २. ०णा । साम्प्रतं लक्षण० ख ॥ ३. लद्धीए छ ज झ । लद्धी य ठ॥ ४. लद्धिओदइया क ख झ ठ। लद्धिओवइया छ । लद्धिओ उदया ५. चेतःपरिणामविशेषाः । वि० ख च । मन:परिणामविशेषाः । वि० घ ङ॥ ६. लेश्या उत्कृष्टादिभेदाः शुभाशुभाश्च ख ॥ ७. ०परिणतिविशेषाः । सञ्ज्ञा० ख घ ङ च ॥
१२८