SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०५। सू०४१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् एस लोए वियाहिए, एत्थ अगुत्ते अणाणाए । एष इति रूप-रस-गन्ध-स्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इति कृत्वा । एतस्मिन् च प्रस्तुते शब्दादिगुणलोके अगुप्तः यो मनो-वाक्-कायैः, मनसा द्वेष्टि रज्यते वा, वाचा प्रार्थनं शब्दादीनां करोति, कायेन शब्दादिविषयदेशमभिसर्पति । एवं यो हि अगुप्तो भवति सः अनाज्ञायां वर्तते, न भगवत्प्रणीतप्रवचनानुसारीति यावद् इति ।। एवंगुणश्च यत् कुर्यात् तदाह पुणो पुणो इत्यादि । ततश्च असौ असकृच्छब्दादिगुणलुब्धो न शक्नोति आत्मानं शब्दादिगृद्धः निवर्तयितुम्, अनिवर्तमानश्च पुनः पुनः गुणास्वादो भवति, क्रियासातत्येन पुनः पुनः शब्दादिगुणान् आस्वादयतीत्यर्थः । तथा च यादृशो भवति तद् दर्शयति वक्र=असंयमः कुटिलो, नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं-समाचारः अनुष्ठानम्, वक्र: समाचारो यस्य स तथा, असंयमानुष्ठायीत्यर्थः । अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमर्दकारी इत्यतो वक्रसमाचारः । प्राक् शब्दादिविषयलवसमास्वादनाद् गृद्धः पुनरात्मानं आवारयितुं असमर्थत्वाद् *अपथ्याम्रफलभोजिराजवद् विनाशमाशु संश्रयत इति । एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् खन्तपुत्तो व्व इदमाचरति पैमत्ते गारमावसे । प्रमत्तः विषयविषमूर्छितः अगारं गृहं आवसति ॥४१॥ योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वाद् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथा अन्यथावादिनो अन्यथाकारिण इति दर्शयितुमाह[सू०] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं टि० १. यस्यासौ वक्रसमाचार: असंय० ख च ॥ २. ०माचारयितु० घ ङ विना || ३. पमत्ते अगार० ख घ ङ॥ वि०टि० # दृश्यतां कथानकं द्वितीयपरिशिष्टे ।। अधिकं जिज्ञासुभिः दृष्टव्यं अर्हन्नककथानकं द्वितीयपरिशिष्टे । १२०
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy