SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०५। सू०४१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् कथमिति ? अत्रोच्यते-सत्यम्, आवर्ते यतयो वर्तन्ते, न गुणेषु, किन्तु राग-द्वेषपूर्वकं गुणेषु वर्तनं इहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात् । आवर्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति । सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येव, अतो नोपलब्धिः प्रतिषिध्यते, रोगपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते । तथा चोक्तम् "कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए ।" [ ] इत्यादि । तेथा- "न शक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । राग-द्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥" [ ]' इति । कथं पुनः गुणभूयस्त्वं वनस्पतिभ्यः ? इति प्रदर्श्यते- वेणु-वीणा-पटह-मुकुन्दादीनां आतोद्यविशेषाणां वनस्पतेरुत्पत्तिः । ततश्च मनोहराः शब्दा निष्पद्यन्ते। प्राधान्यमत्र वनस्पतेविवक्षितम्, अन्यथा तु तन्त्री-चर्म-पाण्यादिसंयोगात् शब्दनिष्पत्तिरिति । रूपं पुनः काष्ठकर्म-स्त्रीप्रतिमादिषु गृह-तोरण-वेदिका-स्तम्भादिषु च चर्रमणीयम् । गन्धा अपि हि कर्पूर-पाटल-लवली-लवङ्ग-केतकी-सरस-चन्दना-ऽगरु-कक्कोलक-एला-जातिफलपत्रिका-केसर-मांसी-त्वक्-पत्रादीनां सुरभयो गन्धेन्द्रियाह्लादकारिणः प्रादुर्भवन्ति । रसास्तु बिस-मृणाल-मूल-कन्द-पुष्प-फल-पत्र-केण्टक-मञ्जरी-त्वग-ऽङ्कर-किशलया-ऽरविन्दकेसरादीनां जिह्वेन्द्रियप्रह्लादिनो निष्पद्यन्ते अतिबहव इति । तथा स्पर्शाः पद्मिनीपत्रकमलदल-मृणाल-वल्कल-दुकू ल-शाटक - उपधान-तूलिक -प्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुःषन्ति । एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च आवर्तवर्ती स राग-द्वेषात्मकत्वाद् गुणेषु वर्तत इति । स आवर्तो नामादिभेदात् चतुर्धा । नाम-स्थापने क्षुण्णे । द्रव्यावर्तः स्वामित्वकरणा-ऽधिकरणेषु यथासम्भवं योज्यः । स्वामित्वे नद्यादीनां क्वचित् प्रविभागे जलपरिभ्रमणं द्रव्यस्य आवर्तः, द्रव्याणां वा हंस-कारण्डव-चक्रवाकादीनां व्योम्नि क्रीडतामावर्तनाद् आवर्तः । करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्यते तृणकलिञ्चादि स द्रव्येणावर्तः, तथा त्रपु-सीसक-लोह-रजत-सुवर्णैः आवर्तमानैः यदन्यत् टि० १. रागद्वेषपरिणामो ख ।। २. तथा चोक्तम् च ॥ ३. ०कन्दक० ख ग च ।। ४. स चावर्तो ग च ।। ५. ०कारण्डचक्र० ग । ०कारण्डक-चचक्र० त्त ।। ६. ०दावर्तते खप्रतिमृते ।। ७. ० आवर्त्यमानै० ख च । गपुस्तके पाठभङ्गः ।। वि०टि० * एतेषां सर्वेषां वृक्षाणा चातुर्वर्णीयछायाचित्राणि दृश्यतां चतुर्थपरिशिष्टे | + "कलिञ्च इति वंशखण्डम्" जै०वि०प० ॥ ११८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy