SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०५। नि०१२९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् पत्तेया इत्यादि । बादराः समासतो द्विविधाः-प्रत्येकाः साधारणाश्च । तत्र पत्रपुष्प-मूल-फल-स्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः । साधारणास्तु परस्परांनुवेधाद् अनन्तजीवसङ्घातरूपशरीरावस्थानाः । तत्र प्रत्येकशरीरा द्वादशविधानाः । साधारणास्तु अनेकभेदाः । सर्वेऽपि एते समासतः षोढा प्रत्येतव्याः।।१२८।। तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनाय आह[नि०] रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तण वलय हरिय ओसहि जलरुह कुहणा य बोधव्वा ॥१२९॥ रुक्खा इत्यादि । वृश्च्यन्त इति वृक्षाः, ते द्विविधाः- एकास्थिका बहुबीजकाश्च । तत्र एकास्थिकाः पिचुमन्दा-ऽऽम्र-कोशम्ब-शाला-ऽङ्कोल्ल-पीलु-सल्लक्यादयः । बहुबीजकास्तु उदुम्बर-कपित्था-ऽस्थिक-तिन्दुक-बिल्वा-ऽऽमलक-पनस-दाडिममातुलिङ्गादयः १। गुच्छास्तु वृन्ताकी-कर्पासी-जपा-आढकी-तुलसी-क[?कु] स्तुम्भरीपिप्पली-नील्यादयः २। गुल्मानि तु नवमालिका-सेरियक-कोरण्टक-बन्धुजीवक-बाणकणवीर-सिन्दुवार-विचकिल-जाति-यूथिकादयः ३। लतास्तु पद्म-नागा-ऽशोक-चम्पकचूत-वासन्ती-अतिमुक्तक-कुन्दलताद्याः ४। वल्लयस्तु कुष्माण्डी-कालिङ्गी-त्रपुषी-तुम्बिनीवालुङ्की-एला(वा)लुंकी-पटोल्यादयः ५। पर्वगाः पुनः इक्षु-वीरण-शुण्ठ-शर-वेत्र-शतपर्ववंश-नल-वेणुकादयः ६। तृणानि तु श्वेतिका-कुश-दर्भ-पर्वका-ऽर्जुन-सुरभिकुरुविन्दादीनि ७। वलयानि च ताल-तमाल-तक्कली-साल-सरल-केतकी-कदलीकन्दल्यादीनि ८। हरितानि तन्दुलीयका-ऽध्यारुह-वस्तुल-बदरक-मार्जार-पादिका-चिल्लीपालक्यादीनि ९। औषध्यस्तु शालि-व्रीहि-गोधूम-यव-कलम-मसूर-तिल-मुद्ग-माषनिष्पाव-कुलत्था-ऽतसी-कुसुम्भ-कोद्रव-कङ्ग्वादयः १०। जलरुहा उदका-ऽवक-पनक टि० १. त[त्र] पुष्प-पत्र-मूल० ङ । तत्र पत्र-पुष्प-फल-मूल-स्क० ख च ।। २. रानुविद्धानन्त० ग घ ङ च । रानुवेधानन्त० ख ॥ ३. ०शभेदप्रतिपादनायाह ख ॥ ४. गच्छा कब ट विना ॥ ५. ०ऽच्छिक० ख । ०ऽत्थिक० घ ङ ॥ ६. गच्छास्तु घ ङ ऋते ॥ ७. ०करवीर० घ ङ विना ॥ ८. विचिकिल० ख ॥ ९. ०शतपत्र-वं० च ॥ १०. ०मार्जार-पल्लिका० ख ॥ वि०टि० * इत आरभ्य १४३ गाथापर्यन्तं १३०-१४१-१४२ अङ्कात्मकगाथात्रयवर्जं द्वादश गाथाः क्वचिदल्प-बहुपाठभेदयुक्ताः प्रज्ञापनोपाङ्ग-प्रथमपदे क्रमशः १२-४५-४६-४४-१०६-प्रक्षिप्त-१०१-१००९७-८४-८५-१०३ अङ्कभाजिन्यः समुपलभ्यन्ते ।। 0 एतेषां सर्वेषां वृक्षाणां चातुर्वर्णीयछायाचित्राणि दृश्यतां चतुर्थपरिशिष्टे । १०६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy