SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [श्रु०१।अ०१। उ०३।सू०२६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सत्थं चेत्थ अणुवीयि पास । सत्थं चेत्थ अणुवीयी पासेत्यादि । शस्यन्ते हिंस्यन्ते अनेन प्राणिन इति शस्त्रम्, तच्च उत्सेचन-गालन-उपकरणधावनादि स्वकायादि च, वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रम्, तथा हि-अग्निपुद्गलानुगतत्वाद् ईषत्पिङ्गलं जलं भवति उष्णम्, गन्धतोऽपि धूमगन्धि, रसतो विरसम्, स्पर्शत उष्णम् , तच्च उद्वृत्तत्रिदण्डम् । एवंविधावस्थं यदि ततः कल्पते, नान्यथा। तथा कचवर-गोकरीष-मूत्र-ऊषादीन्धनसम्बन्धात् स्तोक-मध्य-बहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या । एवमेतत् त्रिविधं शस्त्रम् । चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यम्, नान्यथा इति । एत्थ त्ति एतस्मिन् अप्काये प्रस्तुते, अनुविचिन्त्य-विचार्य, इदमस्य शस्त्रं इत्येवं ग्राह्यम् । पश्य इत्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्य अस्तीति प्रतिपादितम् । एतदेव दर्शयतिपुढो सत्थं पवेदितं । अदुवा अदिण्णादाणं ॥२६॥ पुढो सत्थं पवेदितं । पृथक्-विभिन्नं उत्सेचनादिकं शस्त्रं प्रवेदितम्-आख्यातं भगवता। पाठान्तरं वा- पुढोऽपासं पवेदितं एवं पृथक् विभिन्नलक्षणेन शस्त्रेण परिणामितं उदकग्रहणं अपाशं प्रवेदितम्-आख्यातं भगवता, अपाश: अबन्धनम्, शस्त्रपरिणामितोदकग्रहणं अबन्धनं आख्यातमिति यावत् । __ एवं तावत् साधूनां सचित्त-मिश्राप्कायपरित्यागेन अचित्तपयसा परिभोगः प्रतिपादितः। ये पुनः शाक्यादयो अप्कायोपभोगप्रवृत्ताः ते नियमत एव अप्कायं विहिंसन्ति, तदाश्रितांश्च अन्यानिति । तत्र न केवलं प्राणातिपातापत्तिरेव तेषाम्, किमन्यत् ? इत्यत आह अदुवा अदिन्नादाणं ति । अथवा इति पक्षान्तरोपन्यासद्वारेण अभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि तु अदत्तादानमपि तत् तेषाम्, यतो यैः अप्कायजन्तुभिः यानि शरीराणि निर्वतितानि तैः अदत्तानि ते तानि उपभुञ्जते । यथा कश्चित् पुमान् सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, टि० १. ०त्तदण्डम् क ख ग ॥ २. एवमेतदेव ङ ॥ ३. ०भोगपरिवृत्ता( ता )स्ते ङ ।।
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy