________________
शाक्यादीनामसदाचरणम्
[श्रु०१। अ०१ । उ०३। सू०२४] अप्कायलोकम् अभ्याख्याति = प्रत्याचष्टे स सर्वप्रमाणसिद्धं आत्मानं अभ्याख्याति, यश्च आत्मानम् अभ्याख्याति नास्म्यहम् स सामर्थ्याद् अप्कायलोकमभ्याख्याति, यतो हि आत्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गे अभ्याख्याते सति अव्यक्तचेतनालिङ्गो अप्कायलोकः तेन सुतरामभ्याख्यातः । एवमनेकदोषोपपत्तिं विदित्वा न अयं अप्कायलोको अभ्याख्यातव्य इति आलोच्य साधवो न अप्कायविषयं आरम्भं कुर्वन्तीति ॥ २३ ॥ शाक्यादयस्तु अन्यथा उपस्थिता इति दर्शयितुमाह
[सू०] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे asगरूवे पाणे विहिंसति ॥ २३ ॥
लज्जमाणेत्यादि । लज्जमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः, यदि वा सावद्यानुष्ठानेन लज्जमाना:- लज्जां कुर्वाणाः, पृथग् - विभिन्नाः शाक्य - कणभुक्कपिलादिशिष्याः, पश्य इति शिष्यचोदना । अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा— पश्य मृगो धावति, द्वितीयार्थे वा प्रथमा सुब्व्यत्ययेन दृष्टव्या, ततश्च अयमर्थःशाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग् विभिन्नान् पश्य ।
किं तैः असदाचरितं येनैवं प्रदर्श्यन्ते ? इति दर्शयति
अनगारा वयम् इति एके शाक्यादय: प्रवदन्तः यदिदं यदेतत् काक्वा दर्शयति-विरूपरूपैः उत्सेचना - ऽग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैः उदककर्म समारभन्ते । उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते। तच्च समारभमाणो अनेकरूपान् वनस्पति-द्वीन्द्रियादीन् विविधं हिनस्ति ||२३||
[सू० ]तत्थ खलु भगवता परिण्णा पवेदिता - इमस्स चेव जीवितस्स परिवंदण-माणण-पूयणाए जाती- मरण - मोयणाए दुक्खपडिघातहेतुं से सयमेव उदयसत्थं समारभति, अण्णेहिं वा उदयसत्थं समारभावेति, अण्णे
टि० १. पृथग् इति भिन्नाः क ॥। २. शाक्य-उलूक- कणभुक्० ग च । शाक्यऔलौ (लू) क्य- कणभुक्० ङ ॥
वि०टि० = काकु = वक्रोक्तिः ॥
८३