________________
अनगारस्वरूपम् [श्रु०१। अ०१। उ०३। सू०१९] भवति तथा दर्शयति । तथा आदिसूत्रेण सम्बन्धः- सुधर्मस्वामी इदमाह श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितं अन्यच्च इदमिति । एवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद् वाच्यः ।
से शब्दः तच्छब्दार्थे, स यथा पृथ्वीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि । अपिः समुच्चयें, यथा च अनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवदमाणेत्यादिना इति । न विद्यते अगारं गृहमस्य इति अनगारः । इह च यत्यादिशब्दव्युदासेन अनगारशब्दोपादानेन एतदाचष्टे–गृहपरित्यागः प्रधानं मुनित्वकारणम्, तदाश्रयत्वात् सावद्यानुष्ठानस्य ।
निरवद्यानुष्ठायी च मुनिरिति दर्शयति- उज्जुकडे त्ति । ऋजुः=अकुटिलः संयमो दुष्प्रणिहितमनो-वाक्-कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद् दयैकरूपः सर्वत्र अकुटिलगतिरिति यावत्, यदि वा मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः, तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन च इदमुक्तं भवति- अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः ।
___ एवंविधश्च ईदृग् भवतीति दर्शयति–नियागपडिवण्णे त्ति । यजनं यागः, नियतो निश्चितो वा यागः नियागो मोक्षमार्गः, सङ्गतार्थत्वाद् धातोः सम्यग्ज्ञान-दर्शनचारित्रात्मतया गतं सङ्गतमिति । तं नियागं सम्यग्दर्शन-ज्ञान-चारित्रात्मकं मोक्षमार्ग प्रतिपन्नः नियागप्रतिपन्नः । पाठान्तरं वा निकायप्रतिपन्नः, निर्गतः कायः औदारिकादिः यस्माद् यस्मिन् वा सति स निकाय:=मोक्षः, तं प्रतिपन्न: निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्या अनुष्ठानात् ।।
___ स्वशक्त्या अनुष्ठानं च अमायाविनो भवतीति दर्शयति-अमायं कुव्वमाणे त्ति । माया सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया, ताम् कुर्वाणः अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणो अनगारो व्याख्यात इति । अनेन च तज्जातीयोपादानाद् अवशेषकषायापगमोऽपि दृष्टव्य इति, उक्तं च
टि० १. दर्शयितुमाह । तथा० ख च ॥ २. ०सूत्रेणायं सम्ब० ग ॥ ३. ०र्थे , तद्यथा पृ० ख ।। ४. ०ये । स यथा ग च ॥ ५. मो त्तेगे पव० ख ॥ ६. गृहमेषामित्यनगाराः । इह घ ङ ॥ ७. स च ॥ ८. ०प्रतिपत्तेः ख-ङप्रती विना ।। ९. ०नात् शेष० कसंज्ञकादर्शमृते ।
वि०टि० A अवलोक्यतां द्वितीयोद्देशकप्रथमसूत्रटीका || # “यज देवपूजा-संगतिकरण-दानेषु"पा०धा० १००२ ॥क "तज्जातीय इति कषायजातीय" जै०वि०प० ।।