SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [नि०] "4 अप्कायोपभोगद्वारम् 'तणवोऽणभाइविगारमुत्तजाइत्तओणिलंता उ । सत्था - ऽसत्थहया उ, निज्जीव- सजीवरूवा उ ॥ [ विशेषाव० १७५९] [श्रु०१ । अ०१ । उ०३ । नि०११२] कैदाचिद् अप्कायत्वाद्, एवं शरीरत्वे सिद्धे सति प्रमाणम् - सचेतना हिमादयः, इतरोदकवदिति । तथा सचेतना आपः क्वचित् खातभूमिस्वाभाविकसम्भवत्वात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वाद्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाद् जीवा भवन्ति अप्कायाः ॥ ११० ॥ साम्प्रतं उपभोगद्वारमाह पहाणे पियणे तह धोयणे य भत्तकरणे य सेए य । आउस्स उ परिभोगो गमणा-ऽऽगमणे ये जाणाणं ॥ १११ ॥ हाणे इत्यादि । स्नान पान - धावन - भक्तकरण- सेक-यानपात्रोडुप- -गमनाऽऽगमनादिः उपभोगः ||१११|| ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणानि उद्दिश्य अप्कायवधे प्रवर्तन्त इति दर्शयितुमाह [नि०] एएहिँ कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥ ११२॥ दारा॥ एएहीत्यादि । एभिः स्नाना - ऽवगाहनादिकैः कारणैः उपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति = व्यापादयन्ति । किमर्थं ? इि आह— सातं=सुखं, तद् आत्मनः अन्वेषयन्तः - प्रार्थयन्तः, हिता - ऽहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सैदसद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः परस्य- अप्कायादेः जन्तुगणस्य, दुःखम् असातलक्षणं तद् उदीरयन्ति, असातावेदनीयं उत्पादयन्तीत्यर्थः । उक्तं च " एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याऽपमार्गचलने खलु कोऽपराधः ? " ॥ [ इदानीं शस्त्रद्वारमुच्यते ]॥ २१२ ॥ टि० १. क्वचिद् क- खप्रतिभ्यां विना ॥ २. ० सम्पातत्वाद् ख घ ङ । ३. य णावाणं कप्रत्या विना ॥ ४. दर्शयति ख च ॥ ५ ० रमणीययौवन० ख च ॥ ६. सन्तः सद्विवेक० ख-गप्रती ऋते ॥ वि०टि० ≠ ‘'औ(अ ) णब्भा इति अनभ्रादिविकारमूर्तिजातित्वात् " जै०वि०प० ।। p ‘“अन( नि )लंता इति पृथिव्यप्तेजो- वायवः " जै०वि०प० ॥ ७७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy