SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पृथ्वीशस्त्रसमारम्भस्य ग्रन्थादित्वम् [श्रु०१। अ०१। उ०२। सू०१४ ] अस्यैव जीवितस्य परिपेलवस्य परिवन्दन-मानन-पूजनार्थं तथा जाति-मरणमोचनार्थं दुःखप्रतिघातहेतुं च सुखलिप्सुः दुःखविट् स्वयं-आत्मना एव पृथिवीशस्त्रं समारभते, तथा अन्यैश्च पृथ्वीशस्त्रं समारम्भयति, पृथ्वीशस्त्रं समारभमाणानन्यांश्च स एव समनुजानीते। एवं अतीता-ऽनागताभ्यां मनो-वाक्-कायकर्मभिः आयोजनीयम् । तदेवं प्रवृत्तमतेः यद् भवति तद् दर्शयितुमाहतं से अहिताए, तं से अबोहीए ॥१३॥ तं से अहियाए, तं से अबोहीए । तत् पृथिवीकायसमारम्भणं, से-तस्य कृतकारिता-ऽनुमतिभिः पृथ्वीशस्त्रं समारभमाणस्य आगामिनि काले अहिताय भवति, तदेव च अबोधिलाभाय इति । न हि प्राणिगणोपमर्दनप्रवृत्तानां अणीयसाऽपि हितेन आयेत्यां योगो भवतीति उक्तं भवति ॥१३॥ यः पुनर्भगवतः सकाशात् तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह[ सू०] से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति–एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । से त्तमित्यादि । सः ज्ञातपृथ्वीजीवत्वेन विदितपरमार्थः पृथ्वीशस्त्रसमारम्भं अहितं सम्यग् अवबुध्यमानः आदानीयं-ग्राह्यं सम्यग्दर्शनादि, सम्यगुत्थाय अभ्युपगम्य, केन प्रत्ययेन ? इति दर्शयति- श्रुत्वा-अवगम्य, साक्षाद् भगवतो अनगाराणां वा समीपे, ततः इह मनुष्यजन्मनि एकेषां प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति । यद् ज्ञातं भवति तद् दर्शयितुमाह एसेत्यादि । य एष पृथ्वीशस्त्रसमारम्भः, खलुः अवधारणे, कारणे कार्योपचारं कृत्वा नड्वलोदकपादरोगन्यायेन एष एव ग्रन्थः अष्टप्रकारकर्मबन्धः। तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वाद् मोहः कर्मबन्धविशेषो दर्शन-चारित्रभेदो अष्टाविंशतिविधः । टि० १. ०तव्यस्य ख । ०तस्य पेल० क ॥ २. ०यत्या घ ॥ ३. ०दकं पा० कसंज्ञकादर्शन विना ।। ४. ०ग इति न्या० घ ङ च ।। ६९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy