SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [श्रु०१। अ०१ । उ०२ । सू०१० ] औपशमिकादिप्रशस्तभावहीनो अव्यभिचारिमोक्षसाधनहीनो वेति । स च द्विधा द्रव्यभावभेदात् । तत्र सचित्तद्रव्यपरिद्यूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः । भावपरिद्यून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्तगुणपरिहाण्या, तथा हि- पञ्च चतुः - त्रि-द्वि-एकेन्द्रियाः क्रमशो ज्ञानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदा अपर्याप्तकाः प्रथमसमयोत्पन्नाः, उक्तं च "सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एव वीरेण । सूक्ष्मनिगोदापर्याप्तानां स भवति विज्ञेयः ॥ [ तस्मात् प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रिय-वाङ्-मनो- दृग्भिः ॥" [ ६६ ] ] स च विषय- कषायार्तः प्रशस्तज्ञानद्यूनः किमवस्थो भवति ? इति दर्शयति दुस्सम्बोध इति । दुःखेन सम्बोध्यते - धर्मचरणे प्रतिपत्ति कार्यत इति दुस्सम्बोधो तार्यवदिति । यदि वा दुस्सम्बोधः यो बोधयितुं अशक्यः ब्रह्मदत्तवदिति । किमित्येवं ? यतः - अवियाणए त्ति विशिष्टावबोधरहितः । स चैवंविधः किं विदध्यात् ? इत्याह अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितावेंति ॥ १० ॥ अस्मिन् पृथिवीकायलोके प्रव्यथिते प्रकर्षेण व्यथिते, सर्वस्य आरम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रोद्भीते वा । "व्यथ भय-चलनयोः " [पा०धा०१।७६४] इति कृत्वा व्यथितं = भीतमिति । तत्थ तत्थ इति तेषु तेषु कृषि - खनन - गृहकरणादिषु पृथग् विभिन्नेषु कार्येषु उत्पन्नेषु पश्य इति विनेयस्य लोकाऽकार्यप्रवृत्तिः प्रदर्श्यते । सिद्धान्तशैल्या एकादेशेऽपि प्रकृते बह्वादेशो भवतीति आतुराः विषय - कषायादिभिः अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकायं परितापयन्ति परि:- समन्तात् तापयन्ति = पीडयन्तीत्यर्थः । बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति । यदि वा लोकशब्दः प्रत्येकं अभिसम्बध्यते कश्चित् लोको टि० १. प्रभू ? वृत्ति क ॥। २ ० प्राकृते गङ च ॥ वि०टि० = " तस्मात् प्रभृति इति प्रथमसमयमादिं कृत्वा" जै०वि०प० ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy