SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ लक्षणद्वारे उपयोगादिभेदाः [श्रु०१। अ०१। उ०२। नि०८४] उवओगेत्यादि । तत्र पृथिवीकायादीनां स्त्यानद्धर्युदयाद् या च यावती च उपयोगशक्तिः अव्यक्ता ज्ञान-दर्शनरूपा इत्येवमात्मक उपयोगो लक्षणम् । तथा योगः कायाख्य एक एव औदारिक-तन्मिश्र-कार्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्य आलम्बनाय व्याप्रियते । तथा अध्यवसायाः सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषा इव अनभिलक्ष्याः ते अभिगन्तव्याः । तथा साकारोपयोगान्तःपातिमति-श्रुताऽज्ञानसमन्विताः पृथ्वीकायिका बोद्धव्याः । तथा स्पर्शनेन्द्रियेण अचक्षुर्दर्शनानुगता बोद्धव्याः । तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजः तावद् बन्धभाजश्च । तथा लेश्याः अध्यवसायविशेषरूपाः कृष्ण-नील-कापोत-तैजस्यः चतस्रः ताभिः अनुगताः । तथा दशविधसञ्ज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव । तथा सूक्ष्मोच्छ्वास-नि:श्वासानुगताः, उक्तं च "पुढविकाइया णं भंते ! जीवा आणवंति वा पाणवंति वा ऊससंति वा नीससंति वा ? गोतमा ! अविरहियं संतयं चेव आणवंति वा पाणवंति वा ऊससंति वा नीससंति वा" । [व्या०प्रज्ञ०९।३४।३९१] कषाया अपि सूक्ष्माः क्रोधादयः । एवं एतानि जीवलक्षणानि उपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्ति । ततश्च एवंविधजीवलक्षणकलापसमनुगतत्वाद् मनुष्यवत् सचित्ता पृथिवीति । ननु च तद् इदं असिद्ध असिद्धेन साध्यते, तथा हि-न हि उपयोगादीनि लक्षणानि पृथ्वीकाये प्रव्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु दृश्यन्ते, यथा कस्यचित् पुंसः हृत्पूरव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्त:करणविशेषस्य अव्यक्ता चेतना, न च एतावता तस्य अचिद्रूपता, एवं अत्रापि अव्यक्तचेतनासम्भवो अभ्युपगन्तव्यः । ननु च अत्र उच्छासादिकं अव्यक्तचेतनालिङ्ग अस्ति, न चेह तथाविधं किञ्चित् चेतनालिङ्गं अस्ति?; नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकं अर्शोमांसाङ्करवत् चेतनाचिह्न अस्ति एव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतना अभ्युपगन्तव्या इति, वनस्पतेश्च चैतन्यं विशिष्ट पुष्पफलप्रदत्वेन स्पष्टम्, साधयिष्यते च । ततः अव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथ्वीति स्थितम् ॥८४॥ ____टि० १. ०नद्वर्याद्युदयाद् क-खपुस्तके विना || २. ज्ञानदर्शनावर० ग ॥ ३. विद्यन्ते कप्रतिमृते ॥ ४. ०शिष्टार्थपु० ख ॥ ५७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy