________________
वृक्षादिवत् पृथिव्या नानात्वम् [श्रु०१। अ०१। उ०२। नि०८०] प्रत्येकं प्रकर्षा-ऽप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥७८।।
पुनरपि पर्याप्तकादिभेदेन भेदमाह[नि०] जे बायरे विहाणा पज्जत्ता तत्तिया अपज्जत्ता ।
सुहमा वि होंति दुविहा पज्जत्ता चेवऽपज्जत्ता ॥७९॥
जे बादर इत्यादि । यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादिताः तानि यावन्ति पर्याप्तकानां तावन्ति एव अपर्याप्तकानामपि । अत्र च भेदानां तुल्यत्वं दृष्टव्यम्, न तु जीवानाम्, यत एकपर्याप्तकाश्रयेण असङ्ख्येया अपर्याप्तका भवन्ति । सूक्ष्मा अपि पर्याप्तका-ऽपर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैको अपर्याप्तकः तत्र नियमादसङ्ख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु
“आहार-सरीरिंदिय-ऊसास-वयो-मणोभिणिव्वत्ती । होइ जओ दलियाओ करणं पइ सा उ पज्जत्ती ॥" [बृहत्सं०३३९]
जन्तुः उत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति, तेन च करणविशेषेण आहारमवगृह्य पृथक् खल-रसादिभावेन परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देन उच्यते; एवं शेषपर्याप्तयोऽपि वाच्याः । तत्र एकेन्द्रियाणां आहार-शरीरेन्द्रियोच्छ्वासाभिधानाः चतस्रो भवन्ति । एताश्च अन्तर्मुहूर्तेन जन्तुः आदत्ते । अनाप्तपर्याप्तिः =अपर्याप्तकः, अवाप्तपर्याप्तिस्तु पर्याप्तक इति । अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥७९॥
यथा सूक्ष्म-बादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेन उदाहरणेन दर्शयितुमाह[नि०] रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लि-वलयाणं ।
जह दीसइ नाणत्तं पुढविक्काए तहा जाण ॥४०॥ रुक्खाणमित्यादि । यथा वनस्पतेः वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते तथा पृथिवीकायेऽपि जानीहि । तेत्र वृक्षाः चूतादयः, गुच्छाः वृन्ताकी-सल्लकी-कर्पास्यादयः,
टि० १.०भेदानाह ख । ०भेदाद् भेद० ग घ ङ च ॥ २. गच्छाणं क झ ञ ठ विना ॥ ३. नाणत्ती छ ज झ ॥ ४. जाणे ख ॥ ५. तथा च ।। ६. गच्छाः क-गपुस्तके ।।
वि०टि० + "दलियाओ इति तत्तनि(नि)ष्पत्तियोग्यवर्गणारूपात् तस्य दलिकस्य स्वस्वविषये प्रणमंतं प्रति यत् करणं शक्तिरूपं सा पर्याप्तिरुच्यते" जै०वि०प० ॥