________________
तृतीय खण्ड : व्यक्तित्व खण्ड
७०९
पूरयितुं गुरोरिच्छां, सर्वे निमाजमागताः ॥७॥ आत्म-साधना समाधिग्रहणञ्च जायते निर्बलं स्वास्थ्यं, वृद्धत्वे तु समागते। क्षीणा तस्य वपुःशक्तिरात्मशक्तिरवर्धत ॥८॥ आत्मन्येवात्मना तुष्टः सोऽन्नमौषधमत्यजत् । वाचा मौनं गृहीत्वा च, कर्ममलशोधयत् ॥९॥ मृत्युं सन्निकटं ज्ञात्वा, त्यक्त्वाऽऽहारं चतुर्विधम् । अष्टभक्तं तपस्तप्त्वा, शुक्लध्यानं समादधात् ॥१०॥ पारणं तपसोऽकृत्वा, त्यक्त्वशिष्यनिवेदनम् । शुद्धेन मनसा साधु, संस्तारकं गृहीतवान् ॥११॥ आत्महत्या-समाधिमरणयोः भेदः आत्महत्यां प्रकल्पन्ते, समाधिमरणं जनाः। अज्ञानिनो न बुध्यन्ति, यदेतदात्मसाधना ॥१२॥ आत्महत्या तु सावेशा, रागरोषविमिश्रिता। समाधिमरणं तावत्, समभावेन तज्जय: ॥१३ ॥ दर्शनार्थिनामागमनम् श्रुत्वा समाधिवृत्तान्तं, भक्ताः दूरत आगताः। पंक्तौ बद्धा नरा नायर्यो, दर्शनाय समुत्सुका: ॥१४ । सहस्रदशकं नित्यं, भक्तानां वा ततोऽधिकं । धन्यममन्यताऽऽत्मानं, संप्राप्य गुरुदर्शनम् ॥१५॥ देहात्मनोभेंद-ज्ञानम् इहामुत्रैषणात्यागी, ता मृत्युमहोदधिं । न ह्यमुह्यत भक्तेषु सर्वान् क्षमामयाचत ॥१६॥ देहेऽनित्ये वसन्नात्मा, नानुभवति शाश्वतं । किन्तु देहे वसन्नेव, पृथगात्मानमन्वभूत् ॥१७॥ समाधिमरणं श्रद्धाञ्जलिसमर्पणञ्च दशमेऽहनि समाधेर्हि, देहं त्यक्त्वाऽमरोऽभवत् । वृत्तान्तो प्रसृतो मृत्योराशु सुलभसाधनैः ॥१८॥