________________
[ ४८ ]
योग
नकुल- किरि- सर्पाश्च, जायन्ते रात्रि भोजिनः॥ १६६॥ रात्रि भोजन दोषज्ञाः, प्रातः सायाह्नकालयोः । द्वि घटिकां परित्यज्य, धार्मिका भुञ्जते दिवा ॥ १६७॥ निशासु भोजनं जैनैः, भजनीयं न कर्हिचित् । जिनाज्ञा हृदये येषां ते शुद्धाः धार्मिकामता ॥ १६८ ॥ अनिशा भोजिनः सर्वे, वयं जैना प्रभाषिणः । दुग्धादिकंच मिष्टान्नं, भुंजते ते विशंकया ॥ १६६॥ बाह्य ेन श्रावका एते, कथं रात्रौ च भोजिनः । मिष्टान्नदुग्ध भोगेषु, दम्भस्तेषांविलोक्यताम्॥ १७० ॥ यदि मिष्ठान्न भोक्तारः, कथं भोजन वर्जिनः । निशाहारश्च हेयश्चेद्, दुग्धादि किमु भुंजते ॥ १७१ ॥ नानैव श्रावका येतु, रात्रि भोजन वर्जिनः । दुग्धादिसर्वभोक्तारः, किंतर्हित्या गिनोमताः ॥ १७२॥
कुतर्कनिषेध वर्णनम्
केचिद् वदन्ति रात्रौ च भोजने नियमः कथम् । अभक्ष्यानन्त कायानां, नियमश्चकिमर्थकः ॥१७३॥
१
सत्यादि नियमश्चैव, कार्य्यते साधुना सदा । १ – सत्यादि व्रतस्य ।