________________
-प्रदीप
[६४७] परकायप्रवेशादि, ऐश्वर्यमणिमादिकम् । रूपलावण्यताख्या च, कायसम्पत्प्रकीर्तिता ॥७॥ शारीरिकी विभूतिश्च, ज्ञेया पातञ्जले खलु। जैनशास्त्रेषु लब्धित्वरूपा सा प्रणिगद्यते ॥८॥ मनःपर्यायज्ञानं च, अवधिज्ञानकं तथा । जातिस्मरणज्ञानं च, इत्यादि ज्ञानलब्धयः ॥१॥ आमौषधिश्च विप्रुडौषधिश्लेष्मौषधिश्च वै। सर्वोषधिः स्वरूपा च, जट्टाचारणलब्धयः ॥८२॥ विद्याचारणलब्धिश्च, वैक्रियाहारकादयः । शारीरिक्यश्च मन्तव्या लब्धयो ज्ञानिना सदा ८३ योगवृक्षफलं चैतत् , लब्धिरूपं प्रकीर्तितम् । कैवल्यज्ञानलब्धिश्च, योगस्य फलता मता ॥४॥ सम्पूर्णकर्मणां चैव, क्षयो योगेन जायते । कल्पवृक्षस्वरूपाच्च, योगाम्कि किं न जायते ॥८॥ सम्यक्त्वेनैव मिश्यात्वं, सहाऽज्ञानेन नश्यति । शुद्धतत्त्वेषु वैशुद्धिर्बुद्धिर्यत्र प्रजायते ॥८६॥ श्रद्धादीपप्रकाशश्च, तत्रैव प्रकटीयते । सम्यग्दर्शननैर्मल्यं, यतो योगेन संभवेत् ॥८॥