________________
योग
[३२] यथाशाकस्य संस्कारे, कर्तव्ये किल रिणा। कदाचिद्धस्तयोलग्ने, दुःखमतीव जायते ॥२५॥ यथा खग प्रहारेण, जीवानां मारणेसति । यद् दुःखं जायते तेषां, तद्वक्तुं नैव शक्यते ॥२६॥ यव चूर्ण मुखे भृत्वा, पापिभवाभिनन्दिना। मुष्टिना मार्यते यत्र, नतद् देवालयं भवेत् ॥२७॥ जगतोऽम्बा जगन्माता, सर्वेषां जननीमता। कथमद्यात्सुतान्सावै,न्यायमार्गो विलोक्यताम् ॥२८॥ यदा खादति स्वीयांश्च, तदा सा जननी कथम् । जन्य जनक सम्बन्धः, पित्रोः सर्वत्र सम्मतः ॥२६॥ वध्य घातकता नैव, प्रलये कोऽपि मन्यते । ततः सम्बन्धरूपत्वं, ज्ञातव्यं शुभमिच्छता ॥३०॥ देव्यग्रे याचते पुत्रं, परपुत्रप्रदानतः। रक्षणेच्छा स्वपुत्राणां, परपुत्रविघातनम् ॥३१॥ देवी स्थानेषु गत्वाच, हन्तव्यो नहि केनचित् । कश्चिल्लघुर्महान्प्राणी,कल्याणमिच्छुना सदा ॥३२॥ नैवेद्य परिषोधव्यं, बलिनों प्राणिनाशनम् । प्राणिनां हननेतत्र, शूनां स्थानं न किं भवेत् ॥३३॥