SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ [ ६१८] योगतेषां प्रसुप्तता चैव, तज्जनकस्य कर्मणः । अबाधाकालनाशेन, कर्मनिषेकवस्तुता ॥१६०॥ तनुत्वं चैव विज्ञेयमुपशमस्वरूपकम् । क्षयोपशमरूपं वा, विच्छिन्नत्वं निगद्यते १६१ प्रतिपक्षस्वरूपाणां कर्मणामुदयादितः । अन्तरिकत्वरूपं च, तथोदारत्वरूपता ॥१६२॥ उदयावलिकायां च, प्राप्तमुदाररूपकम् । जैनयोगेषु तेषां वै, नामान्तरं विचारितम् १६३ योगसूत्रे तृतीये च पादे विभूतिवर्णनम् । द्विविधा साऽपि ज्ञातव्या, ज्ञानेतरविभेदतः ॥१६४॥ भूताऽनागतज्ञानं च, सर्वस्य रुतज्ञानकम् । पूर्वजातेश्च ज्ञानं वै, परचित्तस्य ज्ञानता ॥१६॥ भुवनज्ञानता चैव, ताराणां व्यूहज्ञानता । ज्ञानविभूतिभेदाश्च, शारीरिक्यो विभूतयः १६६ परकायप्रवेशादि, अन्तर्ध्यानाऽणिमादिकाः। ऐश्वर्यरूपलावण्य कायसम्पत्तिरूपिका ॥१६॥ १ लब्धयः
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy