________________
[ ६१६ ]
स्पष्टं तत्स्वार्थसूत्रेषु, अध्याये प्रथमे खलु । स्पष्टरूपेण सम्प्रोक्तं, पातञ्जले तथैव च ॥ १४२ ॥ सवितर्कनिर्वित, सविचाराविचारकौ । महाव्रतादिशब्दाश्च कृतकारितशब्दकौ ॥ १४३ अनुमोदितशब्दश्च अन्येऽपि तादृशास्तथा । पातञ्जले समायाताः, प्रसिद्धा जैनदर्शने ॥ १४४॥ ध्यानविशेषरूपार्थे, अध्याये नवमे तथा । प्रतिपादितदृष्टव्याः, सवितर्कादिशब्दकाः ॥ १४५ प्रथमं सविचारं तद् द्वितीयमविचारकम् । शब्दार्थज्ञा न वैकल्पैः, सङ्कीर्णसवितर्ककाः ॥१४६ समापत्तिर्विज्ञातव्या, सार्वभौमा महाव्रतम् । कृतकारितशब्दस्तु, जैनयोगे पदे पदे ॥ १४७ ॥ आचाराङ्गादिसूत्रेषु, तस्वार्थादिकसूत्रके । उपस्थापनकाले च महाव्रतं नियुज्यते ॥ १४८ ॥ सर्वतो विरतिश्चैव महाव्रतं निगद्यते । यस्मिन्नर्थे च ये शब्दाः, पातञ्जलीयदर्शने ॥१४६ प्रयुक्ताश्च तदेवार्थे, दृश्यन्ते जैनदर्शने । कुत्रचिद्भिन्नता स्वल्पा, यथाऽस्ति दृश्यते तथा १५०
योग
-