SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ योग Arriva ईश्वरैकत्वसंख्या तु, ईश्वरे नैव युज्यते। सर्वे मुक्तात्मनो ज्ञेया, निराकारा निरञ्जनाः ॥८॥ ईश्वरपदवाच्या ये, तत्रैकत्वं न युक्तियुक् । अनादिसिद्धमुक्तत्वं, कदापि नैव सिध्यति ॥६॥ शुद्धता कर्मराहित्यमनादित्वे कथं भवेत् । यत्काले कर्मराहित्यं, तत्काले हि विशुद्धता ॥१०॥ तर्हि कथमनादित्वं, शुद्धतायां प्रयुज्यते । अनादित्वं च शुद्धत्वं, माता वन्ध्या समं मतम् ॥६१ अनुग्रहाभिलाषित्वं, रागरूपं प्रकीर्तितम् । यत्र रागश्च तत्रैव, द्वेषोऽपि प्रणिगद्यते ॥१२॥ रागद्वषसमायुक्त, ईश्वरत्वं न मन्यते । अनुग्रहाभिलाषित्वं, दोषत्वान्नैव युज्यते ॥६॥ ईश्वरध्यानयोगेन, आत्मशुद्धिरवाप्यते । योगिना येन तत्रैव, तद्धेतुत्वं निगद्यते ॥१४॥ एतावता च मन्तव्यः, अनुग्रहस्तु चेश्वरे । वास्तविकीदशा चैव, कदापि नैव युज्यते ॥६॥ ईश्वरे सर्वज्ञत्वं च यादृशं योगदर्शने । तादृशं जैनधर्मे च, विशेषस्तु प्रदर्श्यते ॥६६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy