________________
[६०६]
योगवैराग्यं यादृशं भूयात्तादृशमपरं मतम् । परवैराग्यरूपं च, कथ्यते जैनदृष्टितः ॥५३॥ तात्त्विकधर्मसंन्यासः, विषयेषु पराङ मुखातू । यः स्वरूपस्य चिन्तायाः, प्राबल्यात्परिजायते ॥५४॥ अष्टमगुणस्थानेषु, शुद्धवैराग्यमुच्यते। सम्यग्दर्शनचारित्रधर्माश्च मिश्रभावतः ॥५५॥ क्षायोपशमिक्यवस्थाऽपूर्णतां परित्यज्य वै। क्षायिकभावपूर्णत्वं, प्राप्यते योगज्ञानतः ॥५६॥ तत्रैव परवैराग्यं, विज्ञेयं शुद्धधर्मतः। अन्यत्रापरता ज्ञेया, वैराग्यस्य विभेदतः ॥५७॥ द्विस्वरूपस्य वैशा, भाष्यकारेण नोदितम् । भगवत्पाठकेनैव, शुद्धरूपं प्रपश्चितम् ॥२८॥ अष्टादशसु सूत्रेषु, द्वो योगौ परिकोर्तितौ । सम्प्रज्ञातस्तु चेकः स्यादपरोऽसम्प्रज्ञातकः ॥५६॥ तद्वियोगस्य चर्चायाः, स्वरूपं प्रविचार्यते ॥ सर्वज्ञशास्त्रयोगेन, शुद्धबुध्या च चर्च्यते ॥६॥ अध्यात्मभावनाध्यानसमतावृत्तिसंक्षयाः । तेष च योगभेदेषु, पञ्चमो वृत्तिसंक्षयः ॥३१॥ १क्षयोपशमयोगतः