________________
-प्रदीप
rrrrrr
५६७) उत्कृष्टमोहबन्धानां, सम्बन्धस्य विनाशतः । प्रारभ्यते ततश्चैव, त्रयोदशगुणालये ॥३५॥ परिपूर्णत्वमाप्नोति, विशेषत्वं निगद्यते। अष्टमगुणस्थानाच्च, द्वादशे गुणस्थानके ॥३६॥ पृथक्त्वसवितर्काख्यध्यानं, च प्रथमं मतम् । एकत्वसवितर्क च, शुक्लध्यानं द्वितीयकम् ॥३७॥ तत्रेव द्विप्रकारेषु, समावेशो विधीयते । सम्प्रज्ञाताख्ययोगस्य, योगिभिःपरिज्ञायताम् ॥३८॥ निर्वितर्कविचारानन्दास्मितानि सित्वकम् । पर्यायरहिते तत्र, शुद्धद्रव्यत्ववस्तुके ॥३६॥ शुक्लध्याने द्वितीये च, एकत्वसवितर्कके । सम्प्रज्ञातस्य योगस्य, अन्तर्भावो विधीयते ॥४०॥ असम्प्रज्ञातयोगस्तु, केवलज्ञानप्राप्तितः । त्रयोदशाख्यके चैव, चतुर्दशाख्यके तथा ॥४१॥ गुणस्थाने च संस्कारशेषरूपोऽवशिष्यते। अघातिकर्मसम्बन्धः, संस्कारशेषता खलु ॥४२॥
१ निर्भासाऽऽख्यकम्