________________
-प्रदीप
[२७] अतो मूर्टी परित्यज्य, निर्ममताऽनुभूयताम् । प्राप्यते स्वर्ग सौख्यानि,मोक्ष सुखं ततः परम्॥१२३॥ सर्व त्यागेषु शान्तिर्यद्,तदेच्छा परिमाणकम् । . सर्वैरेतद्धि कर्तव्यं, लोकद्वयसुखेच्छुभिः ॥१२४॥ संतोषादैहिक शर्म, परलोके तथैव च। लोकद्वये सुखं भुक्त्वा ,प्राप्नोति परमं पदम् ॥१२॥ ___अहिंसायां सर्वव्रतावतारस्वरूपं महाणुव्रत रूपाणि, व्रतानि कथितानि वै । महाव्रतानि साधूनां, गृहस्थानामणुव्रतम् ॥१२६॥ व्रतानि तानि सर्वाणि, अहिंसाऽन्तर्गतानि वै। तान्यपि सुखबोधाय, निगद्यन्ते विशेषतः ॥१२७॥ मृषा वादेन सर्वेषाम् , दुखं मनसि जायते । अयं महात्मरूपोऽपि,मृषा वादे न लज्जते ॥१२॥ अहिंसायाः प्ररिक्षायै, सन्तोमृषां वदन्ति न। . हिंसा भावश्च सर्वत्र,स्तेयाऽऽदानेषु दृश्यते ॥१२६॥ वधबन्धादिकं सर्वं, चौर्य वस्तु निबन्धनम् । अतस्तत्परिहर्तव्यम् ,हिंसात्यागं विधित्सुना॥१३०॥ मर्वे दार्शिनिकाश्चैव, हिंसां वदन्ति मैथुने ।