________________
-प्रदीप
[२५] तृष्णा व्याकुल चित्तैश्च, दुष्टवासनया सह । कृतश्च यैर्न संतोषः,ते प्राप्ताः दुःखसागरम् ॥१०॥ सुभूमचक्रवर्त्याद्याः, दुर्योधनादयस्तथा। लोभावेशेन संप्राप्ताः, दुखानाञ्च परम्पराः ॥१०६॥ केनचिच्च दरिद्रण, चारणार्थ महीषीणाम् । वनखंडे सरः पाल्यां, विश्रान्तंधरणीतले ॥१०७॥ दृष्टः कश्चन पाषाणः, परीक्षा विकलेनवै। चिन्तारत्नश्च पाषाण-रूपेण ग्रहणी कृतम् ॥१०॥ क्षुधातुर तया तेन, तृषा व्याकुल भावतः। चिन्तितं स्वीय स्वान्तेतत्,लोकबोधाय कथ्यते॥१०॥ सरोजलं पयस्स्याच्चेद, वटपत्राणि पूरिकाः। 'प्रतिदिनञ्च भोज्यं स्यात्परिश्रमाद्विमुच्यते ॥११॥ चक्षुरुद्घाट्य दृष्टं वै, सर्व दुग्धादि वस्तुकम् । अतीव तेन जग्धं तत्,रिक्त जातं न किञ्चन ॥११॥ कुटुम्ब परिवारैश्च, यदा संभूय भुज्यते। तदा तान्यपि दृष्टानि,भुक्तं तेन समंचतैः ॥११२॥ रिक्तताऽपि ततो नैव, तदाऽधिकं विचार्य्यते। । सप्त तलोऽपि प्रासादः,सुवर्ण निर्मितो भवेत् ॥११३॥