________________
-प्रदीप
[२१] अविश्वासखनिःसस्यात्सदाचौर्यञ्चहीयताम् ॥७॥ ज्ञातव्यंद्विविधिं चौर्य, बाह्याभ्यन्तर भेदतः। बाह्यचौर्य समाख्यातमाभ्यन्तरं विचार्य्यताम् ॥७॥ स्व सत्वं यत्र नास्त्येव, परसत्वंतु विद्यते । ग्रहणं यदनापृच्छय, तददत्तमुदाहृतम् ॥७२॥ स्वकीयाः ये शरीरस्थाः, रक्तादिषु समुद्भवाः । तज्जीवानों हि तत्रैव, नहि सत्वं परस्य वै ॥७३॥ तानना पृच्छ्ययदत्तम्, शरीरञ्च स्वकीयकम् । देहमर्पयतां तत्स्थाः , जीवाःपरैश्च भक्षिताः ॥७४॥ देयादेयेऽनभिज्ञोयः, सोऽनालोच्य प्रयच्छति । अदत्तमपितज्ज्ञयम्, आभ्यन्तरं विचार्यताम् ॥७॥
ब्रह्मचर्य स्वरूप निरूपणं वेद-मोहोदयेनैव, विषयेच्छा प्रजायते । मैथुनन्तत्तु षोधव्यं, त्यागात्तूयं व्रतं मतम् ॥७६॥ मैथुनश्च द्वयोर्योगे, द्वयोः पुरुषयोरपि । कार्यकरणेचैकस्मिन्, मिथुनत्वं प्रसज्यते ॥७॥ स्त्री पुंसानांच संयोगः, यदि मैथनमुच्यते। स्वस भ्रातुश्च संयोगो, मैथुनं किं न कथ्यते ॥७८॥