________________
www
Mart-1
[५३२]
योगशुद्धात्मबोधरूपोहि, मोक्षमार्गः प्रकीर्तितः । मग्नता यस्य तत्रैव, भावसाधुः समुच्यते ॥३०४॥ . आत्मज्ञानेषु लीनत्वं, बालक्रोडासमं परम् । इन्द्रजालनिभं सर्व, मन्यते शुद्धयोगिराट् ॥३०॥ व्यवहारो विना ज्ञानं, प्रोच्यते केनचित्कथम् । आदर्शखण्डके रत्न, रत्नमादर्शखण्डकम् ॥३०६॥ उत्तरकालिके ज्ञेयं, काचं काचं मणिर्मणिः। रज्यति सत्यध्यानेषु, विषयेषु परांमुखः ॥३०॥ मुक्तिमार्ग तु दृष्ट्वा वै, मानसेऽतीव हृष्यति । आत्मज्ञानी स मन्तव्यः, अन्ये तु जनवश्वकाः ३०८ आत्मपरिणतिस्त्रेधा, पहिरात्मा तु चैककः । अन्तरात्मा द्वितीयः स्यात्तृतीयः परमात्मकः ३०६॥ देहादौ चात्मबुध्यैव, आत्मत्वमानने खलु । बहिरात्मा तदा ज्ञेयः चित्तभ्रान्तिप्रदोषतः ॥३१॥ देहात्मादौ विवेकत्वं, यस्य स्वान्ते च जागृतम् । आत्मा विभिन्नरूपः स्याच्छुद्धः सर्वप्रकाशकः ३११ देहस्तु जडतारूप: मलीनत्वेन सम्भृतः। अशुचिपूतिगन्धत्वं, वैरविरोधकारणम् ॥३१२॥