SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ [ ५२८ ] योगतत्त्यागाय प्रयत्नं च, कत्तुं सफलतां भजेत् । ध्यानादिकस्य साफल्य, तस्यैव सर्वदा मतम् ।२६६। मोहमदिरया मत्ताः, मिथ्यात्वपरिसेविनः । संसारसागरस्तेषां, उन्मज्जने सहायकः ॥२७॥ तादृशानां वराकानां, चिन्त्या भावदया सदा। कल्याणमार्गच्युताना, भविष्यति च का गतिः २७१ धर्मध्यानं तृतीयं च, यथाशक्त्या निरूपितम् । स्खलना यदि दृश्येत, सूचनीयं कृपालुना ॥२७२॥ द्वितीयपरिसंस्कार, सूचाऽमूल्या भविष्यति । सर्वेषामुपकारश्च, भवति नात्र संशयः ॥२७॥ धर्मध्यानस्य कर्तारः, अवेयकादिनाकिषु । भवन्ति तत्र देवेशाः, सुखसौभाग्यशालिनः २७४ शरच्चन्द्रनिभं देह, दिव्याभरणभूषितम् । विशिष्टवीर्यशालित्वं, प्राप्नुवन्ति च योगिनः २७५ इच्छासम्पन्नभोगादिसुखामृतरसायनम् । निर्विघ्नमुपभुनाना, गतं कालं न जानते ॥२७६ दिव्यभोगस्य पर्यन्ते, परिच्युत्य च स्वर्गतः । सर्वोत्तमशरीरेण, आगच्छन्ति क्षमातले ॥२७७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy