________________
'-प्रदीप
[५२३] सानुकूलं च मित्रादिमातापितृकलत्रकम् । पुत्रादिशुभसंयोगाः, पुष्पमालादिकं तथा ॥२२४॥ शय्यासनं च यानादिवस्त्रपात्रादिकानि च । कर्पूरचन्दनादोनि, केलिक्रीडावनादिके ॥२२५॥ प्रासादध्वजतोरण्यं, छत्रचामरहस्तिनः । अश्वादिनगरादीनि, वस्तूनि सुखहेतवे ॥२२६॥ क्षेत्रादिरामणीयानि, सर्वदा सुखदानि वै। कामभोगादिसामग्री, जायते सुखहेतवे ॥२२७॥ कुन्तासिरिकादीनि, यन्त्रधानुष्कशस्त्रकम् । सर्पविषादिसिंहादि, अग्निवृश्चिककण्टकम् ।२२८। दुष्कालवैरवरोध, भयक्लेशदस्थानकम् । इत्यादिदुष्ट संयोगाः, जायन्ते दुःखहेतवे ।२२६। वर्षाधर्मतुषारादि ईत्युपद्रववस्तुकम् । शीतोष्णपरचक्रादि, अनिष्टफलदानि च ॥२३०॥ दुःखविपाकभूतानि, दुःखरूपाणि तानि च । कर्मविपाकरूपाणि, गीयन्ते जैनशासने ॥२३॥ यत्सर्वं दृश्यते तद्धि, कर्मविपाकएव च । संसारे सर्वजीवेषु, अनुभवेन लोकने ॥२३२॥