SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ mirm. [४६६] योग-- ध्यानं चतुर्विधं ज्ञेयं, चातरौद्रद्वयं खलु। तृतीयं धर्मध्यानं स्याच्छुक्लध्यानं चतुर्थकम् ॥१०॥ आद्य द्वे हेयतारूपे, संसारवृद्धिहेतुके। अन्त्ये व मोक्षमार्गस्य, निमित्ते परिकीर्तिते ॥११॥ आर्तरौद्रकध्यानानां, हेयस्वरूपधारिणाम् । आदौ व्याख्या प्रकारस्तु, स्वबोधाय वितन्यते १२ शोकाक्रन्दनभावेषु, परितापविलापके। पीडानिदानसद्भावे, आर्तध्यानं प्रकथ्यते ॥१३॥ तच्चतुर्विधरूपं स्थादिष्टानां विरहादितः । इष्टवियोगसद्भावे, या चिन्ता परिजायते ॥१४॥ मातापुत्रकलत्राणां, पिताभ्रातादिप्राणिनाम् । आयुःपूर्णे च सद्भावे, वियोगो दुःखदायकः ॥१५॥ वियोगो मे कदा नो स्यादिति विचाररूपकम् । इष्टवियोगचिन्ताख्यं, प्रथमं परिकीर्तितम् ॥१६॥ अनिष्टपितृषन्धूना, संयोगो यदि जायते । तद्वियोगः कदा मे स्यादिति चिन्ता तु या भवेत् ॥१५ तदपि दुःखहेतु स्यादातध्यानं द्वितीयकम् । शूलज्वरादिरोगाणामत्यन्तदुःखदायिनाम् ॥१८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy