SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [४६३] तथैव धर्मिजीवानां कर्तृत्वेऽप्यन्यकार्यके । न तत्र रागरक्तत्वं, अपि तु श्रुतधर्मके ॥३०॥ तथाप्रकारके ज्ञाने, विघ्नविचारणा भवेत् । भोगानां भवहेतूनां, विचारो नैव तन्यते ॥३०॥ न गुणो दोषता नैव, विषयरूपभावतः । गुणापगुणकार्यत्वं, मनसा नैव तन्यते ॥३०७। मायाविजनतां ज्ञात्वा, लड्डनं तन्यते सदा । सत्यस्वरूपज्ञातृत्वाद् भववृद्धेस्तु मीयते ॥३०८।। तत्र मनो न चाञ्चल्यं, नैव भ्रान्तिस्वरूपकम् । भोगांस्त्वसत्यरूपांश्च, ज्ञात्वा ततो निवर्तते ३०६॥ भवभीत्या तु नो तत्र, निवर्तने च हेतुता। किन्तु सत्यं परिज्ञाय, असत्यं परित्यज्यते ॥३१०॥ तादृशी दृष्टितां येन, प्राप्ता भव्यात्मना सदा । तेनैव भवसामुद्रं, तीर्यते नात्र संशयः ॥३११॥ धारणाया विचारस्तु, अनेकदृष्टिबिन्दुतः। अनेकयोगग्रन्थनामाश्रयाच्च वितन्यते ॥३१२॥ तत्रापि दृष्टिदोषेण, शास्त्रयोगविरुद्धतः । तथाऽनुभवबुद्धीनामभावतश्च. यत्कृतम् ॥३१३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy