SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ योगप्रदीपे। ॥ धारणास्वरूपवर्णनम् ॥ सर्वथा घातिनिर्मुक्तः, तीर्थ कृन्नामकर्मणः । उदयो यस्य तस्मै च, सर्वज्ञाय नमो नमः ॥१॥ आदिदेवं हृदि ध्यात्वा, धर्मसूरिं गुरुं तथा। धारणायाः स्वरूपं च, वच्मि गुरुप्रसादतः ॥२॥ ध्येयवस्तुषु सर्वत्र, चित्तस्य स्थिरबन्धनम् । धारणा परिज्ञातव्या, तत्स्वरूपं प्रकाश्यते ॥३॥ नाभिहृदयनासाद्य, भालभ्रकुटितालुतः । मस्तकमुखकर्णानि, धारणास्थानकानि च ॥४॥ दर्शितानि च शास्त्रेषु, एकत्र कुत्रचित्तदा । स्थाप्यतां च मनस्तत्र, धारणा कथ्यते खलु ॥५॥ संवित्तिप्रत्ययाश्चैव, जायन्ते बहवः किल । व्याख्यानं परिज्ञातव्यं, योगाशास्त्रानुसारतः ॥६॥ आध्यात्मिकाधि-भौतिके, देशे वा चाधिदैविके । एतस्मिन्कुत्रचिच्चैव, ध्येयविषयदेशके ॥७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy