SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१३] योगस्वरूपम् सामान्य लक्ष्मयोगस्य, कथ्यतेऽत्र प्रकाशके। योगाङ्गानाश्च निर्देशः, क्रियते यमभेदतः ॥१॥ पवित्रयोगशब्दोऽयं, येषां कर्णेऽपि नागतः । तेऽपि मनुष्यरूपेण, मन्तव्या हरिणाः सदा ॥२॥ अष्टानामपि योगानां, नामतत्त्वं निरूप्यते । यमाश्च नियमाश्चैव, आसनप्राणयामकौ ॥३॥ ध्यानसमाधयः प्रोक्ताः, प्रत्याहारश्च धारणा।। एतानि योगनामानि, प्रोक्तानि हेमसूरिभिः ॥४॥ धर्मव्यापाररूपत्वं, योगस्य लक्षणं विदुः । चित्तवृत्तिनिरोधस्तु, नोच्यते दोषदर्शनात् ॥५॥ समितिगुप्तिरूपोहि, धर्मव्यापार उच्यते । सर्वाऽपि धार्मिकी वृत्तिः, धर्मव्यापार एव हि ॥६॥ पुण्यसंज्ञानभेदेन, धर्मोऽपि द्विविधो मतः । संसारे सुखसम्पत्तिः, पुण्यधर्मेण जायते ॥७॥ सम्यग्ज्ञानक्रियारूपः, द्वितीयो धर्म उच्यते। सम्यग्दर्शनज्ञानेन, सह चारित्ररूपकः ॥८॥ यतोऽभ्युदयनिःश्रेय-स्वरुपो धर्म उच्यते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy