SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [११] बद्धजीवावस्थाविचारः नित्या नित्यत्वसंयुक्ताः, भिन्नाभिन्नाश्च देहतः । सामान्याश्च विशेषाश्च,बद्धाजीवा उदाहृताः॥३६॥ स्वरूपाऽव्ययरूपत्वं, नित्यत्वं प्रणिगद्यते । अप्रच्युतमनुत्पन्नं, कौटस्थ्यं नित्यमेव न ॥४०॥ स्वजातित्वापरित्यागाद्रूपान्तरस्य चोद्भवः । अनित्यत्वं समाख्यातं, जैनदर्शनवेदिभिः ॥४१॥ भिन्नत्वे स्वशरीरेण, पीडा केषां न काचन । ताडनेन यथोष्ट्राणां, गर्दभानां दुःखं न हि ॥४२॥ - एकान्ततो ह्यभिन्नत्वे, शरीरस्य विनाशतः। आत्मनोऽपि विनाशः स्यात्सर्वाऽनिष्टं प्रजायते॥४३॥ धर्माधर्मादिकार्याणां, योगाङ्गानां तथैव च । परलोकाद्यभावेन, विफलत्वं प्रपद्यते ॥४४॥ भेदोऽभेदश्च सम्बन्धो, देहजीवात्मनोमतः। क्रियाणाञ्चैव साफल्य-मतोहि मोक्षसाधनम् ॥४॥ आत्मत्वाऽऽख्यंच सामान्यं, सर्वात्मनि तु विद्यते । नत्वतिर्यक्त्व भेदेन, विशेषः परिभाषितः ॥४६॥ १ "मोक्षसुखम्" इत्यपि पाठः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy