________________
-प्रदीप
[४०५] अभ्यासस्यैव द्वारेण, पूर्वोक्त मण्डलानि च । स्वयमेव च ज्ञेयानि, आत्मना चात्मज्ञानतः ॥७१॥ तच्चतुर्मण्डले चैव, क्रमतो भ्रमद्वायूनाम् । चतुष्प्रकाररूपेण, ज्ञानं कार्यं च सर्वदा ॥७२॥ पीतवर्णस्य द्वारेण, भृत्वा च घ्राणछिद्रकम् । शनैः शनैश्च सञ्चारि, कोणाष्टाङ्ग लमानतः ७३॥ पुरन्द रत्व वातेन, नाम्ना सर्वत्र गीयते। श्वेतशीतलनीचैश्च, भागे शीघ्र च गच्छति ॥७४॥ द्वादशाङ्गु लमानेन, वरुणो वायुको भवेत् । शीतोष्णकृष्णतिर्यक् च निरन्तरं च गम्यते ॥७॥ षडङ्ग लप्रमाणैश्च, संचारे पवनाभिधः । बालसूर्यसमाज्योतिरत्युष्णश्चतुरङ्ग लः ॥७६॥ आवर्तयुक्तता तत्र, ऊवं संचारिवायुकः । दहनाभिधता ज्ञेया, सर्वत्र सर्वयोगिभिः ॥७॥ स्तम्भनादिककार्येषु उत्तमश्च पुरन्दरः। सर्वोत्तमेषु कार्येष, वरुणः परिज्ञायते ॥७॥ मलीने चंचले कार्ये, पवनः परिकीर्तितः । तथा वश्यादि कार्येषु, वह्निश्च परिभाषितः ॥७॥