SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ wwwwww www.in [४०२] योगततः पाणिविभागेषु, जंघायां गुल्फके तथा। उर्वोर्जानुनि पायूस्थे, लिङ्ग नाभौ च तुन्दके ॥४४॥ हृदये कण्ठस्थाने च, जिह्वायां तालुस्थानके । नासिकाग्रविभागे च, नेत्रे भ्रू मस्तके तथा ॥४५॥ ततोऽनेन प्रकारेण, शिरसि धार्यतां पुनः । ततो रस्मि क्रमेणैव, वायुना सह धारणे ॥४६॥ एकस्थानात्परस्मिंश्च, स्थाने नीत्वा च वायूनाम् । ततश्च ब्रह्मरंध्रेषु ततोऽपि नाभिपङ्कजे ॥४७॥ नीत्वा विरेचनं कृत्वा, ततः पश्चाच तन्यताम् । विरेचने क्रमोऽयं तु दर्शितो योगमार्गतः ॥४८॥ पादांगुष्ठादि स्थानेषु, जंघायां जानुनोस्तथा । उर्वोगुंदा विभागे च, लिंगे च धारणे कृते ॥४६॥ ततः शीघ्रगतिर्भूयाद् बलं च प्रतिपद्यते । नाभौ धारणकर्तव्ये, ज्वरादिकं विनाशयेत् ॥५०॥ जठरे धारणेनैव, देहशुद्धिस्तु जायते । हृदये धारणेनैव, शुद्ध ज्ञानं प्रजायते ॥५१॥ कूर्मनाड़ीषुधर्तव्ये, रोगजरे विनाशयेत् । कण्ठे च धारणेनैव, क्षुधातृषे विनश्यतः ॥५२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy