SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Www [३८६] योगध्यानिना रक्षितव्या च, ध्यानकाले हि सर्वदा ॥७॥ आलस्य परिहाराय, सावधानो भवेत्तथा। चक्षुः सम्मील्य स्थातव्यं, यथा सुखेन स्थीयते ॥८॥ दीर्घकालिकपर्यन्ते, स्थेये बाधा च नो भवेत् । तादृशासनबन्धेन, आसनाभ्यासता मता ॥६॥ कायचेष्टासु शैथिल्यं स्वाभाविक स्वरूपतः। योगासनाय कर्तव्यं, बलात्कारेण नो कदा ॥१०॥ अनन्तज्ञानि देवेशे, मनसस्तन्मये तथा । आसनस्य भवेत्सिद्धिः, तत्रैव परिभाव्यताम् ॥११॥ एकप्रहरपर्यन्तं, स्थातव्ये नैव क्लिष्टता। अचलैकासनेनैव, लघुकालस्तु ज्ञायताम् ॥१२॥ परस्मिन् दीर्घता ज्ञेया, आसनसिद्धिमिच्छता । आसनसिद्धि भावेषु द्वन्द्वबाधा च नो भवेत् ॥१३॥ पद्मासनस्वरूपम् ॥ पादं च दक्षिणं पूर्व, दक्षिणजंघके खलु । आनीय वामजंघायाः, उपरि तस्य मोचनम् ॥१४॥ घुण्टनमस्य पेट्टस्य, वामभागस्य कोणके । यथा स्पृशेत्तथैवं च, कर्तव्यं सुखहेतवे ॥१५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy