________________
योग
wwwmmmmmwwwww
[३८०] अतो विभिन्नवस्तूनां, वाञ्छा कार्या कदापि नो। सर्वज्ञशासनं प्राप्तु, यततां सर्वदा खलु ॥३१४॥
॥अज्ञानी ॥ विनोदकारिगीतानां, श्रवणेच्छा गरीयसी। श्रीकृष्णमन्दिरे गत्वा, रासलीला च श्रृयताम् ॥३१५ गोपीनां सुन्दरं गीतं, शृङ्गारपरिपूर्णजम् । नर्तनं सुखदं चैव, हावभावविधायकम् ॥३१६॥ श्रुतं न येन तद्गीतं, तस्य जन्मनिरर्थकम् । हारितं खलु संसारे, अजागलस्तनादिवद् ॥३१७॥
॥ज्ञानी॥ शृङ्गारपोषक वाक्यं श्रुती श्रोतुच नेच्छतः । अश्लीलकामरागानां, पोषकं भवपोषकम् ॥३१॥ विभित्सशब्दगीते , कल्याणं यदि स्यात्तदा । विदूषकानां च भट्टानां, प्रथमं परिजायते ॥३१६॥ कामिना काम तृप्त्यर्थ प्रपञ्चस्तादृशः कृतः। स्वयं नष्टा परांश्चैव,नाशयति च धूर्तराट् ॥३२०॥ योगिनां निकटे चैव, तद्वक्त नैव युज्यते । वेश्या भांडजनाग्रेषु, रासलीला विधीयताम् ॥३२॥