________________
[ ३७० ]
योग
यस्य साधोश्च यादृक्षाः दोषा लग्नाश्च भावतः । प्रमाद से विनस्तादृग् दोषाणां चैव ज्ञानतः ॥ २३०॥ पूर्व ज्ञात्वा च पश्चाहूँ दीक्षा पर्यायकस्य च । ह्रासकरणसद्भावे छेदरूपं च तन्मतम् ॥२३१॥ षड्विकृति परित्यागे निर्विकृतिकनामना । तत्राचाम्लोपवासादौ तपः कार्ये च तन्मतम् ॥ २३२ दूषितानां मुनीनां च दोषणां च प्रमाणतः । पक्षमासं च पर्यन्तं वर्षादिकं तथैव च ॥ २३३॥ संसर्गत्यागपूर्वेण सर्वथा दूरवर्जनम् ।
प्रायश्चित्तं च तज्ज्ञेयं परिहाराऽभिधानकम् ॥ २३४॥ ब्रह्मचर्य - यमानां च विनाशकारि साधूनाम् । पुनर्महाव्रतानां चारोपणे चोपस्थापनम् ॥२३५॥ मूलच्छेदे कथंचिच्च ऐक्यं तत्परिकीर्त्तिते । अंशतः छेदनेनैव छेदाभिधानकं मतम् ॥ २३६ ॥ दीक्षा पर्यायकाख्यानां सर्वथा - छेदने सति । मूलाभिधानकं चैव प्रायश्चित्तं च सम्मतम् ॥ २३७॥ अनवस्थाप्य पाचिकयोर्नव च भिन्नता ।
अमुककालपर्यन्तं अनारोपो महाव्रते ॥ २३८ ॥