________________
[३५६ ]
योगस्वयंभूसागराणां च, अवगाहोऽति दुर्लभः । ततोऽपि लोभवेलानामवगाहेनैव शक्तिमान्॥११०॥ अतस्तस्याश्च संत्यागः, येनकेन प्रकारतः। कर्तव्यः सर्वथा श्रेयः यदि मुक्तिं च वांछति।१११॥ सर्वथेच्छा परित्यागः, सन्तोषः सर्वथा मतः। देशतश्च परित्यागे, सन्तोषो देशतस्तथा ।११२। साधूनां सर्वथा त्यागः, दशमादिगुणालये। पञ्चमगुणपर्यन्तं, देशतो गृहिणां मतः॥११३॥ विना महाव्रतं नैव, नियमा गुणपोषका । त्यागेच्छा सर्वथा येषां, स्वीकार्य तैर्महाव्रतम् ॥११४॥ चक्रवर्तिषु नो तादृक्, सुखं सन्तोषकारिणाम् । भिक्षामात्रोपजीव्यानां, भिक्षूणां च यथोदितम्।११। देवाश्च किंकरा-यन्ते, समुद्रः स्थलतां भजेत् । भुजङ्गः पुष्पमालास्यात् सिंहोऽपि हरिणायते ।११६। अपरिग्रहोऽपि सन्तोषः, नियमोऽपि तथैव च। भेदः काऽपि न विद्यत, समाधानं विधीयताम् ।११७। मूर्छा च ममता रूपा, परिग्रहः स एव हि । तस्याश्चैव परित्यागे, महाव्रतं च पञ्चमम् ॥११॥
१--क्षपकश्रेणौ ।