SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ॥ अथत्रयोदशम प्रकाशः ॥ स्वरोदय निरूपणं अजोऽकलोऽविनाशी यः, यः समता सरित्पतिः । निष्कलङ्को विशुद्धश्च, पातुवः श्रीजिनाधीशः ॥१॥ निरञ्जनश्च नैगुण्यः, सगुणो निर्मलः सदा। निर्भयो निरहङ्कारः, निर्ग्रन्थो जगदीश्वरः ॥२॥ जन्मजरात्वरोगादि, क्लेशकर्मपहिर्मुखम् । प्रातिहार्य समायुक्तः, सर्वज्ञः परमेश्वरः ॥३॥ पार्वेश जिनदेवानां, मूर्तिः कल्याणकारिणी। सम्मेताचलप्रासादे, स्थितां वन्दे निरन्तरम् ॥४॥ कालज्ञान प्रभावेन, आगमस्यानुसारतः। हृदिगुरुकृपां धृत्वा, स्वरज्ञानं निरूप्यते ॥५॥ सर्वत्रैवोपयुज्येत, धर्मकार्येऽपरे तथा । अतस्तदपि प्रोच्येत, मयाज्ञानानुसारतः ॥६॥ अत्यन्तस्थिरचित्तन, ज्ञायते च स्वरोदयम् । ततः शुभाशुभं कार्य, भाविलाभस्य सूचकम् ॥७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy